________________
श्रुतस्कन्धः-१, अध्ययनं.७,
१७१
तथा 'लवणं रसानां तैलं स्नेहानां धृतं मेध्याना' मिति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाःप्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवज्जणेणं' आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चक वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्ष प्रवदन्ति ।
तथैके 'वारिभद्रकादयो' भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षप्रवदन्ति, उपपत्तिचते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति, ये किल स्वर्गादिफलमनाशंस्य समिधाधृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्यति शेषास्त्वभ्युदयायेति, युक्ति चात्र ते आहु यथा ह्यग्नि सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ।। मू. (३९३)पाओसिणाणादिसु नत्यि मोक्खो, खारस लोणस्स अनासएणं।
ते मज्जमंसं लसणं च भोञ्चा, अन्नत्य वासं परिकप्पयति ।। वृ.तेषामसम्बद्धप्रलापिनामुत्तरदानाया-'प्रातःस्नानादिषुनास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निशीलानांमोक्षोनभवति, आदिग्रहणात् हस्तपादादिप्रक्षालनंगृह्यते, तथाहि-उदकपरिभोगेनतदाश्रितजीवानामुपमईः समुपजायते, नच जीवोपमर्दान्मोक्षावाप्तिरिति, नचैकान्तेनोदकं बाह्यमलस्याप्यपनयने समर्थम् - अथापिस्यात्तथाप्यान्तरंमलं नशोधयति, भावशुद्धयातच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धि स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेके मुक्त्यवाप्ति स्यात्, तथा-'क्षारस्य' पञ्चप्रकार- स्यापि लवणस्य ‘अनसनेन' अपरिभोगेन मोक्षो नास्ति, तथाहिलवणपरिभोगरहितानां मोक्षोभवतीत्ययुक्तिकमेतत्नचायमेकान्तोलवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात, अपिचासौ प्रष्टव्यः।।
किं द्रव्यतो लवणवर्जनेन मोक्षावाप्ति उत भावतः ?, यदि द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मूढा मद्यमांसं लशुनादिकं च भुक्त्वा 'अन्यत्र' मोक्षादन्यत्र संसारे वासम्-अवस्थान तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्थाननुष्ठानाच परिकल्पयन्ति' समन्तानिष्पादयन्तीति॥ मू. (३९४) उदगेण जे सिद्धिमुदाहरंति, सायंच पायं उदगं फुसंता।
उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ।। वृ. साम्प्रतं विशेषेण परिजिहीर्षुराह तथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धि' परलोकम् ‘उदाहरन्ति' प्रतिपादयन्ति-'सायम्' अपराले विकालेवा 'प्रातश्च प्रत्युषसिचआद्यन्तग्रहणात् मध्याह्ने चतदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रिया जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक्, यतो यधुदकस्पर्शमात्रेण सिद्धि स्यात् तत उदकसमाश्रिता मत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्धयेयुरिति ।
यदपि तैरुच्यते-बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणं नघटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागंकुङ्कुमादिकमपनयति, ततश्चपुण्यस्याप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org