________________
१७२
सूत्रकृताङ्ग सूत्रम् १/७/-/३९४ नयनादिष्टविधातकृतिरुद्धः स्यात्, किञ्च यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम् ॥१॥ ___ "स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् ।
तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः॥ ॥१॥
"नोदकल्लिन्नगात्री हि, स्नात इत्यभिधीयते ।
सस्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचि ।। किञ्चमू. (३९५) मच्छ य कुम्मा य सिरीसिवाय, मग्गूय उद्या दगरक्खसा य।
अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरति ।। वृ.यदिजलसम्पर्कात्सिद्धिः स्यात्ततोयेसततमुदकावगाहिनोमत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गव- तथोष्ट्रा-जलचरविशेषाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमंसिद्धयेयुः, नचैतद्रुष्टमिष्टं वा, ततश्चयेउदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम्' अयुक्तम्असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति।। मू. (३९८) उदगंजइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव ।
अंधं च नेयारमणुस्सरित्ता, पाणाणिचेवं विणिहति मंदा ।। वृ.किञ्चान्यत्-यधुदकं कर्ममलमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते-जलं कर्मापहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मार्तमार्गमनुसरन्तः कुर्वन्तिते यथाजात्यन्धा अपरंजात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा । 'मन्दा' अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया प्राणव्यपरोपणस्य सम्भवादिति मू. (३९७) पावाई कम्माइं पकुव्वतो हि, सिओदगं तू जइतं हरिना।
सिज्झिसु एगे दगसत्तघाती, मुसंवयंते जलसिद्धिमाहु॥ वृ. अपिच-'पापानि' पापोपादानभूतानि 'कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यधुदकमपहरेत् यद्येवं स्यात् तर्हि हि यस्मादर्थे यस्मााण्युपमर्दैन कर्मोपादीयते जलावगाहनाच्चापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठाअप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनासिद्धिमाहुः ते मृषा वदन्ति॥ मू. (३९८) हुतेण जे सिद्धिमुदाहरंति, सायंच पायं अगणिं फुसंता।
एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणपि।। वृ.किश्चान्यत्-'अग्निहोत्रं' जुहुयात् स्वर्गकाम इत्यस्माद्वाक्यात् 'ये' केचन मूढा ‘हूतेन' अग्नी हव्यप्रक्षेपेण सिद्धिं' सुगतिगमनादिकां स्वर्गावाप्तिलक्षणाम् उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः ?- सायम्' अपराह्ने विकाले वा 'प्रातच' प्रत्युषसि अग्नि स्पृशन्तः यथेष्टैर्हव्यैरग्ि तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुश्चैवं ते यथा -
अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादग्नि संस्पृशता ‘कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनांसिद्धि स्यात्, यदपि च मन्त्रपूतादिकं तैरुदाहियते तदपिचनिरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org