________________
११२
सूत्रकृताङ्ग सूत्रम् १/३/४/२४०
॥१॥ "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां,
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो ष्टिबाणाः पवन्ति ।
-तदेवं वैतरणी नदीवत् दुस्तरा नार्यो भवन्तीति। मू. (२४१) जेहिं नारीण संजोगा, पूयणा पिट्टतो कता।
सव्वमेयं निराकिच्चा, ते ठिया सुसमाहिए। वृ अपिच-यैः' उत्तमसत्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवोनारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, “सर्वमेतत्' स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानंप्रतिप्रवृत्तास्तेसुसमाधिना-स्वस्थचित्तवृत्तिरूपेणव्यवस्थिताः, नोपसर्गरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्येतु विषयाभिष्वङ्गिणः स्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागाग्निनादह्यमानाअसमाधिना तिष्ठन्तीति ख्यादिपरीषहपराजयस्य फलं दर्शयितुमाहमू. (२४२) एते ओधं तरिस्संति, समुदं ववहारिणो।
जत्थ पाणा विसन्नासि, किचंती, सयकम्मुणा । वृ.यएतेअनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि ओघं' संसारंदुस्तरमपि तरिष्यन्ति, द्रव्योघद्दष्टान्तमाह-'समुद्रं लवणसागरमिवयथा व्यवहारिणः' सांयात्रिकायानपात्रेण तरन्ति । एवं भावौधमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि-'यत्र' यस्मिनभावौधेसंसारसागरे 'प्राणाः' प्राणिनःस्त्रीविषयसंगाद्विषण्णाः सन्तः ‘कृत्यन्ते पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेनपापेन 'कर्मणा' असद्वेदनीयोदयरूपेणेति मू. (२४३) तंच भिक्खू परिन्नाय, सुव्बते समिते चरे।
मुसावायं च वज्जिज्जा, अदिन्नादाणं च बोसिरे ॥ वृ. साम्प्रतमुहसंहाराव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यप्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्योयैः परित्यक्तास्ते समाधिस्थाः संसारंतरन्ति, स्त्रीसङ्गिनश्चसंसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वभिक्षणशीलोभिक्षुः परिज्ञाय' हेयोपादेयतया बुध्ध्वा शोभनानिव्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत्' संयमानुष्ठान विदध्यात्। तथा 'मृषावादम्' असद्भतार्थभाषणं विशेषेण वर्जयेत्, तथा अदत्तादानंच व्युत्सृजेद्' दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्, आदिग्रहणान्मैथुनादेः परिग्रह इति, तच्च मैथुनादिकं यावञ्जीवमात्महितं मन्यमानः परिहरेत् । मू. (२४४) उड्ढमहे तिरियं वा, जे केई तसथावरा।
सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहिया ।। ख. अपरव्रतानामहिंसाया वृत्तिकल्पत्वात् तत्या धान्यख्यापनार्थमाऊलमधस्तियक्ष्वित्यनेन क्षेत्रप्राणातिपातोगृहीतः, तत्र ये केचनत्रसन्तीतित्रसा-द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मबादरपर्याप्तकाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org