SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक: - ४ र्याप्तकभेदभिन्ना इति । अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वास्ववस्थास्वित्यनेनापि कालभाव - भेदभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलमुद्देशेनाहमू. (२४५) इमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ।। वृ. 'शान्ति' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपद यद् 'आख्यातं ' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥ संखाय पेसलं धम्मं, दिट्ठिमं परिनिब्बुडे । मू. (२४६) उवसग्गे नियामित्ता, आमोक्खाए परिव्वएज्जासि ।। -त्तिबेमि ॥ वृ. समस्ताध्ययनार्थोपसंहारार्थमाह-' इमं च धम्ममित्यादि, 'इम' मिति पूर्वोक्तं भूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय' आचार्योपदेशेन गृहीत्वा किम्भूतमिति तदेव विशिनष्टि । 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं समधिगम्य 'भिक्षु' साधुः परीषहोप- सर्गेरतर्जितो ग्लान्यापरस्य साधोर्वैयावृत्यं कुर्यात्, कथमिति ?, स्वतोऽग्लानतया यथाशक्ति 'समाहित' इति समाधिं प्राप्तः, इदमुक्तं भवति कृत्कृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ ११३ अन्यच्च ‘संख्याये' ति सम्यक् ज्ञात्वा स्वसम्मत्या अन्यतो वा श्रुत्वा 'पेशलं 'ति मोक्षगमनं प्रत्यनुकूलं, किं तद् ? - 'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी । 'परिनिर्वृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय' मोक्षं यावत् परि-समन्तात् 'व्रजेत्' संयमानुष्ठानेन गच्छेदिति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् नयचर्चाऽपि तथैवेति । अध्ययनं ३ उद्देशकः-४ समाप्तः अध्ययनं ३ समाप्तम् मुनीदीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य तृतीय अध्ययन टीका परिसमाप्ता । अध्ययनं ४ स्त्री परिज्ञा उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गा प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्त्रीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्राध्ययनार्थाधिकारः प्रागवत् नियुक्तिकृता 'थीदोषविवज्रणा चेचे' त्यनेन स्वयमेव 8 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy