________________
अध्ययनं ४, उद्देशकः -
.
श्रुतस्कन्धः - १,
यदुक्तं 'स्त्रीपरिज्ञे' ति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा 'पुरुषपरिज्ञे' त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्-: अध्ययनं-४ उद्देशकः-१ :
मू. (२४७)
जे मायरं च पियरं च, विप्यजहाय पुव्वसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ।।
वृ. अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा - अनन्तरसूत्रेऽभिहितम्, आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'यः' कश्चिदुत्तमसत्त्वो 'मातरं पितरं ' जननीं जनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पञ्चात्संयोगं च 'विप्रहाय' त्यक्त्वा, चकारौ समुच्चयार्थी ।
'एको' मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वस्मै वाहितः स्वहितः परमार्थानुष्धानविधायी 'चरिष्यामि' संयमं करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञां सर्वप्रधानभूतां लेशतो दर्शयति- 'आरतम्' उपरतं मैथुनं कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, क्वचित्पाठो 'विवित्तेसित्ति' ' विविक्तं' - स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ पू. (२४८)
119 11
•
११७
सुहुमेणं तं परिक्कम्म, छन्नपएण इत्थिओ मंदा ।
उव्वायंपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे ।।
वृ. तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकी स्त्रीजनात्तद्दर्शयितुमाह-'सुहुमेणं' इत्यादि, 'तं' महापुरुषं साधुं 'सूक्ष्मेण' अपरकार्यव्यपदेशभूतेन 'छन्नपदेने' ति छद्मना - कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्ये 'ति शीलस्खलनयोग्यतापत्त्या अभिभूय, काः ? 'स्त्रियः ' कूलवालुकादीनामिव मागधगणिकाद्वा नानाविधकपटशतकरणदक्षा विविध - विब्बोकवत्यो भावमन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति भार्तृपुत्रव्यपदेशेन साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्"पियपुत्त मइकिडगा नत्तूकिडगाय सयणकिडगा य ।
119 11
एते जोव्वणकिडगा पच्छन्नपई महिलियाणं || यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा -
“काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्त्यया ये प्रथमाक्षरेषु || इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्म:, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह
मू. (२४९) पासे भिसं निसीयंति अभिक्खणं पोसवत्थं परिहिंति । कायं अहेवि दंसंति, बाहू उद्धट्टु कक्खमनुव्वजे ॥
बृ. 'पार्श्वे' समीपे 'भृशम्' अत्यर्थमूरुपपीडमतिस्नेहमाविष्कुर्वन्त्यो निषीदन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org