________________
११८
सूत्रकृताङ्ग सूत्रम् १/४/१/२४९ विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोषं कामोत्कोचकारि शोभनमिर्त्यः तत्र तद्वस्त्रं पोषवद् तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन परिदधति । स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थं परिधानं शिथिलंकृत्य पुनर्निबन्धन्तीति, तथा 'अधः कायम्' ऊर्वादिकमनङ्गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुध्धृत्य' कक्षामादर्त्य 'अनुकूलं' साध्वभिमुखं 'व्रजेत्' गच्छेत् । सम्भावनायां लिङ्, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति मू. (२५०) सयणासणेहिं जोगेहिं इत्थिओ एगता निमंतंति । एयाणि चैव से जाणे, पासाणि विरुवरुवाणि ॥
वृ. अपिच 'सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं - पर्यङ्कादितथाऽऽस्यतेऽस्मिन्नित्या - --सनम् - 3 [-आसंदकादीत्येवमादिना 'योग्येन' उपमेगार्हेण कालोचितेन 'स्त्रियो' योषित 'एकदा ' इति विवक्तदेशकालादी 'निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति ।
इदमुक्तं भवति शयनासनाद्युपभोगं प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासनिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्तिबध्नन्तीति पाशास्तान् 'विरूपरूपान्' नानाप्रकारानिति । इदमुक्तं भवति-स्त्रियो ह्यसन्नगामिन्यो भवन्ति, तथा चोक्तम्
11911
"अंब वा निंब वा अब्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोवि य जं आसन्नं तमिछन्ति ॥
तदेवम्भूताः स्त्रियो ज्ञात्वा न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् -
119 11
"जं इच्छसि धेत्तु जे पुव्वि तं आमिसेण गिण्हाहि । आमिसपासनिबद्धो काहिइ कज्जुं अकजं वा ॥ नो तासु चक्खु संधेज्जा, नोविय साहसं समभिजाणे । नो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥
पू. (२५१)
वृ. 'नो' नैव ‘तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु 'चक्षुः ' नेत्रं सन्ध्यात् सन्धयेद्वा, न त ष्टौ स्वष्टिं निवेशयेत्, सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्"कार्येऽपीषन्मतिमान्निरीक्षते योषिदङ्गमस्थिरया । अस्निग्धयाध्शाऽवज्ञया ह्यकुपितोऽपि कुपित इव ॥
11911
तथा नापि च साहसम् अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात्' प्रतिपद्येत, तथा ह्यतिसाहसमेतत्सङ्गामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपि साधोर्योषिदासज्जनमिति, तथा नैव स्त्रीभिः सार्धं ग्रामादौ 'विहरेत्' गच्छेत्, अपिशब्दात् न ताभि सार्धं विविक्तासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह साङ्गत्यमिति, तथा चोक्तम् - 119 11 " मात्रा स्वस्ना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥
एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः सर्वापायानां स्त्रीसम्बन्धः कारणम्, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org