________________
श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक :- १
-
मू. (२५२)
आमंतिय उस्सविया भिक्खु आयसा निमंतंति । एतणि चेव से जाणे, सद्दाणि विरुवरुवाणि ॥
वृ. कथं चैताः पाशा इय पाशिका इत्याह- 'आमंतिय' इत्यादि, स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्रय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयित्वा तथा 'उस्सविय'त्ति संस्थाप्योच्चाववैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थं ता एव योषितः प्रोचुः ।
तद्यथा भर्तारमामन्त्रयापृच्छयाहमिहाऽऽयाता, तथा संस्थाप्य भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वां ममर्तृजनितामाशङ्कां परित्यज्य निर्भयेन भाव्यमित्येवमादिकैर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदं शरीरकं याध्क्षस्य क्षोदीयसो गरीयसोवा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थ एतानेव 'विरूपरूपान्' नानाप्रकारान् 'शब्दादीन्' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति अन्यत्रपू. (२५३) मनबंधणेहिं नेगेहिं, कलुण विणीयमुवगसित्ताणं । अदु मंजुलाई भातंति, आणवयंति भिन्नकहाहिं ॥
वृ. मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम्
११९
119 11 "नाह पिय कंत सामिय दइय जियाओ तुमं मह पिओत्ति । जीए जीयामि अहं पहवसि तं मे सरीरस्स ।।
इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं 'उवगसित्ताणं' ति उपसंश्लिष्य समीपमागत्य 'अथ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, तदुक्तम्119 11
-
"मितमहुररिभियजंपुल्लएहि ईसीकडक्खहसिएहिं ।
सविगारेहि वरागं हिययं पिहियं मयच्छीए ।
तथा 'भित्रकथामी' रहस्यालपैर्मैथुनसम्बद्धैर्वचोभि साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववशं वा ज्ञात्वा कर्मकरवदाज्ञां कारयन्तीति ।
मू. (२५४)
सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं ।
एवित्थियाउ बंधति, संवर्ड एगतियमनगारं ॥
वृ. अपिच- 'सीहं जहे' त्यादि, यथेति ध्ष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंहं पिशितादिना - ऽऽ मिषेणोपप्रलोभ्य 'निर्भय' गतभीकं निर्भयत्वादेव एकचरं 'पाशेन' गलयन्त्रादिना बन्धन्ति बध्ध्वा च बहुप्रकारं कदर्थयन्ति ।
एवं स्त्रियो नानाविधैरुपायैः पेशलभाषाणदिभिः 'एगतियन्ति' कञ्चन तथाविधम् 'अनगारं' साधुं 'संवृतमपि' मनोवाक्कायगुप्तमपि 'बध्नन्ति' स्ववशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामर्थ्योपदर्शनार्थं, तथाहिसंवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति । किञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org