________________
१२०
सूत्रकृताङ्ग सूत्रम् १/४/१/२५५ मू. (२५५) अह तत्थ पुणो नमयंती, रहकारो व नेमि आनुपुवीए।
___ बद्धे मिए व पासेणं, फंदंते वि न मुञ्चए ताहे ।। वृ. 'अथ' इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि 'नमयन्ति' प्रह्रकुर्वन्ति, यथा-'रथकारो' वर्धकि 'नेमिकाष्टं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधु स्वकार्यानुकूल्ये प्रवर्तयन्ति, सचसाधुर्मुगवत् पाशेन बद्धोमोक्षार्थं स्पन्दमानोऽपिततः-पाशान्न मुच्यत इति ॥ मू. (२५६) अह सेऽणुतप्पई पच्छा, भोचा पायसं व विसमिस्सं।
एवं विवेगमादाय, संचासो नवि कप्पए दविए। वृ. किञ्च-'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यंसम्भाव्यते, तद्यथा
___“कोद्धायओकोसमचित्तुकाहोवणाहिंकाहोदिज्जउवित्तकोउग्धाडउपरिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ।। (तथा-) ॥१॥ यत्-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम्।
एकाकी तेन दह्येऽहं, गतास्ते फलभोगिनः॥ इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवा) दृष्टान्तेन स्पष्टयति-यथा कश्चिद्विपमिश्रं भोजनं भूक्त्वा पश्चातत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथाकिमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनामास्वादितमिति, एवमसावपिपुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतद्व्याधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमति परितप्यते।
तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठास्य 'आदाय' प्राप्य, विवेकमिति वा क्वचित्पाठः, तद्विपाकविवेकंवा 'आदाय'-गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवाप्सो' वसतिरेकत्र ‘न कल्पते' नयुज्यते, कस्मिन्-'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ।
-स्त्रीसम्बन्धदोषानुपदर्योपसंहरन्नाहमू. (२५७) तम्हा उ वजए इत्थी, विसलितं व कंटगं नञ्चा।
ओए कुलाणि वसवत्ती, आघाते न सेवि निग्गंथे ।। वृ.यस्माविपाककटुःस्त्रीभिः सहसम्पर्कस्तस्मात्कारणास्त्रियो वर्जयेत्तुशब्दात्तदालापमपि न कुर्यात्, किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे मग्नः सन्ननर्थमापादयेस्त्रियस्तु स्मरणादपि, तदुक्तम्॥१॥ "विषस्य विषयाणां च, दूरमत्यन्तरमन्तरम्।
उपभुक्तं विष हन्ति, विषयाः स्मरणादपि ॥" (तथा) ॥१॥ “वरि विस खइयं न विसयसुहु इक्कसि विसिण मरंति ।
विसयामिस पुण घारिया नर नरएहि पडंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org