________________
श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशकः - १
१२१
तथा 'ओजः' एकः असहायः सन् 'कुलानि गृहस्थानां गृहाणि गत्वास्त्रीणां वशवर्ती तन्निर्दिष्ट-वेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो' न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनादवश्यंतत्रापायसम्भवादिति, यदा पुनः काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गत्वा अपरीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ।। मू. (२५८) जे एवं उंछं अनुगिद्धा, अन्नयरा हुंति कुसीलाणं।
सुतवस्सिएवि से भिक्खू, नो विहरे सह नमित्थीम् ।। वृ.अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमोभवतीत्यभिप्रायवानाह–'जेएयंउंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतेक्षिण एतद्-अनन्तरोक्तम् उंछन्ति जुगुप्सनीयं गडं तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकंवा द्रष्टव्यं, तदनु-तत्प्रतिये 'गृद्धा' अध्युपपन्ना मूर्छिताः, ते हि 'कुशीलानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति
यदिवा-काधिकपश्यकसम्प्रसारकभामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थ, यत एवमतः ‘सुतपस्व्यपि' विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षु' साधुः आत्महितमिच्छन् 'स्त्रीभिः' समाधिपरिपन्थिनीभिः सह नविहरेत्' कचिद्गछेन्नापि सन्तिष्टेत्, तृतीयार्थे सप्तमी, णमितिवाक्यालङ्कारे, ज्वलिताङ्गारपुजवदूरतः स्त्रियो वर्जयेदितिभावः
कतमाभिः पुनः स्त्रीभिः सार्धन विहर्तव्यमित्येतदाशङ्कयाहमू. (२५९) अविधूयराहि सुण्हाहिं, धातीहिं अदुव दासीहि ।
महतीहि वा कुमारी हिं, संथवं से न कुज्जा अनगारे ।। वृ. अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहिति दुहितृभिरपि सार्धं न विहरेत् तथा ‘नुषाः' सुतभार्यास्ताभिरपि सार्धं न विविक्तासनादौ स्थातव्यं, तथा 'धात्र्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकंनस्थेयं, अथवाऽऽसतां तावदपरायोषितो याअप्येता 'दास्यो' घटयोषितः सर्वापदास्ताभिरपि सह सम्पर्क परिहरेत् । तथा महतीभिः कुमारीभि
शब्दाल्लध्वीभिश्च सार्धं 'संस्तवं' परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि स्नुषादौ वा न चित्तान्यथात्वमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थं स्त्रीसम्पर्क परिहर्तव्य इति ।। मू. (२६०) अदुनाइणं च सुहीणं वा, अप्पियं दटु एगता होति।
गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि ।।। वृ.अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-'अदुनाइणम्' इत्यादि, विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वां योषिजातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च तेसमाशङ्करन्, यथा-सत्त्वाः-प्राणिन इच्छामदनकामैः 'गृद्धा' अध्युपपन्नाः, तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्धंनिर्दीकस्तिष्ठति, तदुक्तम् ॥१॥ "मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणंच हतोदरस्य ।
गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ।। तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा-रक्षणं पोषणंचेति विगृह्य समाहारद्वन्द्वस्तस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org