SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, अध्ययनं-७, ४४९ तथैवमेव सविशेषणप्रत्याख्यानप्ररुपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु तेश्रमणा वा निर्ग्रन्था वा यथार्थो भाषांभाषन्ते, अपित्यनुतापयतीत्यनुतापिका तां, तथाभूतांच खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतोऽ. नुतापिकेत्युच्यत इति। पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्बणदोषोद्विभावयिषयाऽऽह-'अब्माइक्खंती'त्यादि, तेहि सविशेषणप्रत्याख्यानवादिनोयथावस्थितंप्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भावनतोऽभ्याख्यानंददति । किंचान्यत्-'जेहिंवि' इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयमं कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह-'कस्स ण मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति ? । यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजोयतस्ततसाःप्राणिनः स्थावरत्वेन प्रत्यायान्ति स्थावराश्च त्रसत्वेनेति । त्रसकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिनाकर्मणा विमुध्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमवात्यम्-अघाताहँ भवति, यस्मात्तेन श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकवाल्लोकगर्हितत्वाच्चेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तन्निवृत्त्याच त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवदभिप्रायेण विशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्ती कृतायामपरपर्यायापन्नं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्व्रतपालनं स्यादित्येवमभ्याख्यातम्-असद्भूतदोषोद्भावनं भवन्तोददति। यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायंभूतशब्द उपादीयतेअसावपिव्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा-देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां-त्रससशानामेव प्राणातिपातनिवृत्तिः कृता स्यात्, न तु सानामिति, अथतादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थ, एवं त्रसभूतास्त्रसत्वं प्राप्ताः, तथाच सतित्रसशब्देनैव गतार्थत्वात्पीनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात्, तथाहि-क्षीरभूतविकृतेः प्रत्याख्यानं करोम्येवं धृतभूतं मे ददस्वैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति । तदेवं निरस्ते भूतशब्देसत्युदक आह मू. (८००) सवार्य उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा! तुब्मेवयह तसा पाणा तसा आउ अन्नहा?, सवार्य भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुब्भे वयह तसभूता पाणा तसाते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुला एगट्ठा, किमाउसो! इमे भे सुप्पनीयतराए भवइ तसभूया पाणा तसा, इमे भे दुष्पनीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिकोसह एवं अभिनंदह, अयंपि भेदो से नो नेआउए भवइ । 229 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy