________________
३८६
सूत्रकृताङ्ग सूत्रम् २/३/-१६८९ उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगातसिणेहमाहारेति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवियणं तेसिं नानाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं।
घृ. अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानांसंबन्धिनः कांश्चित्स्वनामग्राहमाह, तद्यथा-मच्छांजावसुंसुमाराण'मित्यादि, तेषां मत्स्यकचछपमकरग्राहसुसुमारादीनां यथाबीजेन-यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्यच स्वकर्मनिर्वर्तितायांयोनावुत्पद्यन्ते ते च तत्राभिव्यक्ता मातुराहारेणेवृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, तेचजीवा जलचरा गर्भावयुक्रान्ताः सन्तस्तदनन्तरं यावद् ‘डहर'त्ति लधवस्तावदप्स्नेहम् अपकायमेवाहारयन्ति आनुप्व्येण च वृद्धाः सन्तो वनस्पतिकायं तथाऽपरांश्च त्रसान् स्थावरांचाहारयन्ति यावत्पञ्चेद्रियानप्याहारयन्ति, तथा चोक्तम् । ॥१॥ "अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः।
तिमिनिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति राघवः ।। तथातेजीवाः पृथिवशरीरं-कर्दमस्वरूपंक्रमेणवृद्धिमुपगताःसन्तआहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगम, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् साम्प्रतं स्थलचरानुद्दिश्याह-'अहावर मित्यादि, अथापरमेतदाख्यातं नानाविधानं चतुष्पदानां, तद्यथा-एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां-गोमहिष्यादीनांतथागण्डीपदानां-हस्तिगण्डकादीनांतथा सनखपदानां-सिंहव्याघ्रादीनांयथाबीजेन यथावकाशेन सकलपर्याप्तिमवाप्योत्पधन्ते ते चोत्पन्नाः सन्तस्तदनन्तरंमातुः स्तन्यमाहारयन्तीति, क्रमेणच वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपंगता भवन्तीति।
साम्प्रतमुर परिसानुद्दिश्याह-'नानाविधानां बहुप्रकाराणामुरसायेप्रसर्पन्ति तेषां, तद्यथाअहीनामजगराणामाशालिकानां महोरगाणां यथाबीजत्वेन यथावकासेन चोत्पत्याऽण्डजत्वेन पोतजत्वेनवाग निर्गच्छन्तीति।तेच निर्गता मातुरूष्माणवायुंचाहारयन्ति, तेषांच जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं, यावदाख्यातमिति ।। साम्प्रतं भुजपरिसपानुद्दिश्याह-नानाविधानांमुजाभ्यां ये परिसर्पन्तितेषां, तद्यथा-गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेनचोत्पत्तिर्भवति,तेचाण्डजत्वेनपोतजत्वेन चोत्पन्नास्तदनन्तरंमातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगम, यावदाख्यातिमिति।
साम्प्रतं खेचरानुद्दिश्याह-नानाविधानांखेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणांचर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्रपक्षिविततपक्षिणांचाहीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा - सा पक्षिणी तदण्डकं स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदूष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चच्चादिकानवयवान् परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत ।
व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यश्चश्च, तेषां चाहारो द्वेधा-आभोगनिवर्तितोऽना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org