________________
श्रुतस्कन्धः - १, अध्ययनं - ७,
१६९
स
'मेघावी' सदसद्विवेकः सुश्रुतिकः समीक्ष्य धर्मं पापाड्डीनः पण्डितो नाग्निकार्य समारभते, एव च परमार्थतः पण्डितो योऽग्निकायसमारम्भ कृतात् पापान्निवर्तत इति । कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह - (गाथा चतुष्कं) मू. (३८७) पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कट्ठसमस्सिया य, एते दहे अगणि समारभंते ॥
वृ. न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी- मृल्लक्षणा असावपि जीवाः, तथा आपश्च- द्रवलक्षणा जीवास्तदाश्रिताश्च प्राणाः 'सम्पातिमाः' शलभादयस्तत्र सम्पतन्ति, तथा 'संस्वेदजाः ' करीषादिष्विन्धनेषु धुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकायं समारभेत्, ततोऽग्निकायसमारम्भो महादोषायेति ॥
मू. (३८८) हरियाणी भूताणि विलंबगाणि, आहार देहा य पुढो सियाई । जे छिंदती आयसुहं पडुच्च, पागब्भि पाणे बहुणं तिवाती ॥
वृ. एवं तावदग्निकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह- 'हरितानि' दूर्वाकुरादीन्येतान्यप्याहारादेर्वृद्धिदर्शनात् ‘भूतानि' जीवाः तथा 'विलम्बकानीति' जीवाकारं यान्ति विलम्बन्तिधारयन्ति, तथाहि कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपक्वानि जीर्णानि परिशुष्काणि मृतानि तथा वृक्षा अप्यङ्कुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखा प्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्य वस्थास्वायोज्यं तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशाखापत्रपुष्पादिषु स्थानेषु 'पृथक्' प्रत्येकं 'श्रितानि' व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि च भूतानि सङ्ख्यासङ्ख्यानन्तभेदभिन्नानि वनस्पतिकायाश्रितान्याहारार्थं देहोपचयार्थं देहक्षत संरोहणार्थं वाऽऽत्मसुखं 'प्रतीत्य' आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात्' घाटर्थ्यावष्टम्भाद्बहूनां प्राणिनामतिपाती भवति, तदपिपाताच्च निरनुक्रोशतया न धर्मोनाप्यात्मसुखमित्युक्तं भवति भू. (३८९) जातिं च वुडूिंढ च विनासयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोए अणजधम्मे, बीयाइ जे हिंसति आयसाते ।।
g. किञ्च- 'जातिम्' उत्पत्तिं तथा अङ्करपत्रमूलस्कन्धशाखा प्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितानि छिनत्तीति, 'असंयतः ' गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपधातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति - यो हरितादिच्छेदको निरनुक्रोशः 'सः' अस्मिन् लोके 'अनार्यधर्मा' क्रूरकर्मकारी भवतीत्यर्थ, सचक एवम्भूतो यो धर्मापदेशेनात्मसुखथ वा बीजानि अस्य चोपलक्षणार्थत्वात् वनस्पतिकायं हिनस्ति स पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ।
मू. (३९०) गब्भाइ मिजंति बुयाबुयाणा, नरा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org