SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ सूत्रकृताङ्ग सूत्रम् १/७/-/३८४ अपरं बध्नन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि-दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - ॥१॥ “मा होहि रे विसन्नो जीव! तुमं विमणदुम्मणो दीनो। नहु चिंतिएण फिट्टइ तं दुक्खं जंपुरा रइयं ॥ ॥२॥ जइ पविससि पायालं अडविंव दरिंगुहं समुदं वा । पुवकयाउ न चुक्क सि अप्पाणं घायसे जइवि ।। एवं तावदोधतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याहमू. (३८५) जे मायरं वा पियरं च हिञ्चा, समणव्वए अगणिं समारभिजा । अहाहु से लोए कुसीलधम्मे, भूताईजे हिंसति आयसाते। वृ.'ये' केचनाविदितपरमार्था धर्मार्थमुस्थितामातरंपितरंचत्यक्त्वा, मातापित्रोर्दुस्त्यजत्वात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौद्देशिकादिपरिभोगाचाग्निकायसमारम्भं कुर्युरित्यर्थ, अथेति वाक्योपन्यासार्थ।। 'आहुरिति तीर्थकृद्गणधरादयएवमुक्तवन्तः यथा सोऽयंपाषण्डिकोलोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थं हिनस्ति' व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकयाच क्रिययापाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलषन्तीति ॥ मू. (३८६) उज्जालओपाण निवातएञ्जा, निव्वावओ अगणि निवायवेजा। तम्हा उ मेहावि समिक्ख धम्म, न पंडिए अगमि समारभिजा !. वृ. अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितुमाह-तपनतापनप्रकाशादिहेतुंकाष्ठादिसमारम्भेण योऽग्निकार्यसमारभतेसोऽग्निकायमपरांश्चपृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनो निपातयेत्, त्रिभ्यो वा मनोवाकायेम्भय आयुर्बलेन्द्रियेभ्यो वा पातयेन्निपातयेत् तथाऽग्निकायमुदकादिना 'निर्वापयन्' विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः “दो भंते! पुरिसा अन्नमन्नेणसद्धिं अगणिकायंसमारभंति, तत्थणंएगेपुरिसे अगणिकार्य उज्जालेइ एगेणं पुरिसे अगणिकायं निव्ववेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकार्य उज्जालेइ से णं पुरिसे बहुतरागंपुढविकायंसमारभति, एवंआउकार्य वाउकायं वणस्सइकायंतसकायंअप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अपतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं अटेणं गोयमा ! एवं वुश्चई"। अपि चोक्तम्-“भूयाणं एसमाधाओ, हव्यवाहो न संसओ' इत्यादि । यस्मादेवं तस्मात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy