________________
श्रुतस्कन्ध: - १, अध्ययनं ७,
-
१६७
वृ. नानाभेदभिन्नं जीवसंघातं प्रदर्श्याधुना तदुपघाते दोषं प्रदर्शयितुमाह- 'एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिताः कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, 'एतेषु' च पूर्व प्रतिपादितेषु पृथिवीकायादिषु प्राणिषु 'सातं' सुखं जानीहि, एतदुक्तं भवति ।
सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा 'प्रत्युपेक्षस्व' कुशाग्रीयया बुध्धया पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्डयते, एतत्समारम्भादात्मदण्डी भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति एतान् कायान् ये दीर्घकालं दण्डयन्ति पीडयन्तीति तेषां यद्भवति तद्दर्शयति ।
ते एतेष्वेव पृथिव्यादिकायेषु विविधम्- अनेकप्रकारं परि-समन्ताद् आशु- क्षिप्रमुपसामीप्येन यान्ति व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भयः समुत्पद्यन्त इत्यर्थः, यदिवा- विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः कायैर्यां क्रियां कुर्वन्ति तथा संसार एव भवतीति । यथा चासावयतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयतियू. (३८३) जाईपहं अमुपरिवमाणे, तसथावरेहिं विणिघायमेति ।
से जाति जातिं बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥
बृ. जातीनाम् - एकेन्द्रियादीनां पन्था जातिपथः, यदिवा-जाति- उत्पत्तिर्वधो-मरणंजातिश्च वधश्च जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषुपर्यन् जन्मजरामरणानि वा बहुशो ऽनुभवन् 'त्रसेषु' तेजोवायुद्वीन्द्रियादिषु 'स्थावरेषु' च पृथिव्यम्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिघातं ' विनाशमेति- अवाप्नोति ।
'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणिदारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्माकेन्द्रियादिकायां जातौ यप्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मीयते' म्रियते पूर्यते यदिवा 'मी हिंसायां ' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव कर्मणा मीयते परिच्छिद्यत इति ।।
भू. (३८४) अस्सिं च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥
वृ. क्व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्मामि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपार्क तीव्रं ददति 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदशुभमाचरन्ति ततैवोदीर्यते तथा-‘अन्यथा वेति, इदमुक्तं भवति किञ्चित्कर्म तद्भव एव विपाकं ददाति किश्चिच्च जन्मान्तरे, यथा-मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, दीर्घकालस्थितिकं त्वपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृ त्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति ।
तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयन्त्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org