SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ सूत्रकृताङ्ग सूत्रम् २/२/-/६६२ पूर्वेण यन्त्राभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते - मृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा केशाश्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिना विजयादिति, सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गोज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्चपुरुषविचयविभङ्गस्त- मेवंभूतं ज्ञानविशेषमाख्यास्यामिप्रतिपादायिष्यामि, याध्शानां चासौ भवति तांल्लेशतः प्रतिपादयितुमाह- 'इह खलु' इत्यादि, 'इह ' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षटस्थानपतिता भवन्ति । # तथा छन्द:- अभिप्रायः स नाना येषां ते तथा तेषां नानाशीलानां तथा ननारूपा दृष्टिःअन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानी त्रिषष्ठधिकानि प्रमाणमगवन्तव्यं, तथा नाना रूचिर्येषां ते नानारुचयः, तथाहिं-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृपितानामिदं नानाविधं पापश्रुताध्ययनं भवति, तद्यथा - भूमौ भवं भौमं निर्धातभूकम्पादिकं, तथोत्पातं कपिहसितादिकं, तथा स्वप्नं गजवृषभसिंहादिकं तथाऽन्तरिक्षम् - अमोधादिकं, तथा अङ्गे भवमाङ्गम्-अक्षिबाहुस्फुरणादिकं, तथा स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, तथा लक्षणंयवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनं-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा - दुर्भगमपि सुभगमाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां- गर्भाधानविधायिनीं, तथा मोहो- व्यामोहो वेदोदयो वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणीं विद्यामधीयते, तथा पाकशासनीम् इन्द्रजालसंज्ञिकां तथा नानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोञ्चाटनादिकैः कार्यैहोमोहवनं यस्यां सा द्रव्यहवनातां, तथा क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या स्वगोत्रक्रमेणायात । तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापायतीति दर्शयति - चंदचरिय' मित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्च वर्णस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं त्विदं- सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो वीथीत्रयचारादिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषु मण्डलेषु भवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति । तथा मृगा- हरिणशृगालादय आरण्यास्तेषां दर्शनरूतं ग्रामनगरप्रवेशादी सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चेमाः - वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साच किल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाऽपस्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy