SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ श्रुतस्कन्धः - १, अध्ययनं-१२. २२९ सावधारणतयाऽभ्युपगमंकुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणंतथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरानिरपेक्षतयैकान्तेनकालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वं, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तत्तजीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितं, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिताना सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रलावली समुदाये भवन्तीदृष्टा,नवटेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तम् - ॥१॥ "कालो सहाव नियई पुवकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव उसमासओ होंति संमत्तं ।। ॥२॥ सव्वेवि य कालाई इह समुदायेण साहगा भणिया । जुञ्जति य एमेव य सम्म सव्वस्स कजस्स ।। ॥३॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि। इह मुग्गरंधणादिवि ता सव्वे समुदिता हेऊ॥ जह नेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्घमुल्लावि ॥ ॥५॥ तह निययवादसुविणिच्छियावि अन्नोऽन्नपक्खनिरवेक्खा । सम्मइंसणसई सव्वेऽवि नया न पाविति ।। जह पुण तेचेव मणी जहा गुणविसेसभागपडिबद्धा। रयणावलित्ति भण्णइ चयंति पाडिक्कसन्नाओ। ॥७॥ तह सव्वे नयवाया जहानुरूवविणिउत्तवत्तव्वा । सम्मइंसणसई लभंति विसेससन्नाओ। ॥८॥ तम्हा मिच्छद्दिट्ठी सव्वेवि नया सपक्खपडिबद्धा। अन्नोन्ननिस्सिया पुण हवंति सम्मत्त सब्भावा ।। यतएवंतस्मात्त्यक्त्वा मिथ्यात्ववाद-कालदिप्रत्येकैकान्तकारणरूपं सेवध्यम्' अङ्गीकुरुध्वं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासन्नं 'सत्यम्' अवितथमिति॥गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (५३५) चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति। किरियं अकिरियं विणियंति तइयं, अन्नाणमाहंसु चउत्थमेव ।। वृ.अस्य च प्राक्तनाध्ययनेन सहायं संबन्धः तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्स्वरूपाविष्करणंचानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो महाप्रज्ञो वीरो दत्तैषणां ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy