________________
२२८
सूत्रकृताङ्ग सूत्रम् १/१२/-/५३४/नि. [१२१]
पूर्वोक्तवादिनांमतम्-अभिप्रायस्तेन यदनुमतं-पक्षीकृतं तेनपक्षीकृतेन पक्षीकृताश्रयणेन प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' अस्मिन्नध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थं, तेनैव कारणेनेदमध्ययनं समवसरणाख्य-माहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति।।
इदानीमेतेषां सम्यगमिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-सम्यगअविपरीता द्दष्टि-दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यगद्दष्टि, कोऽसावित्याह-क्रियाम्अस्तीत्येवंभूतां वदितुंशीलमस्येति क्रियावादी, अत्रच क्रियावादीत्येतद अस्थित्ति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूध सम्यग्दष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि --
अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणंअस्तिकालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्-“कालः पचति भूतानी'- त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्तत्वानांस्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति, तथा चोक्तम् -
“कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतत्वात्तथा चोक्तम्।-"प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथापुराकृतं, तञ्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - ॥१॥ “यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते ।
तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ।। ॥१॥ "स्वकर्मणा युक्त एव, सर्यो ह्युत्पद्यते जनः।
सतथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ इत्यादि । -तथा पुरुषकारोऽपि कारणं, यस्मान पुरुषकारमन्तरेण किञ्चिसिध्यति, तथा चोक्तम् -
“न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्नुमर्हति! ।। (तथा) “उद्यमाचारु चित्राङ्गि!, नरो भद्राणि पश्यति ।
उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ।। तदेवंसर्वानपिकालादीन् कारणत्वेनाभ्युपगच्छन्तथाऽऽत्मपुण्यपापपरलोकादिकंचेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवाददैनयिकवादा मिथ्यावादाइत्येवं द्रष्टव्याः, तथाहि-अक्रियावाद्यत्यनास्तिकोऽध्यक्षसिद्धंजीवाजीवादिपदार्थजातमपलुवमिथ्याष्टिरेवभवति, अज्ञानवादीतुसति मत्यादिके हेयोपादेयप्रदर्शक ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवंवदन्कथं नोन्मत्तः स्यात् ?, तथा विनयवाद्यपि विनयादेव केवलात्ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः
ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तःतत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, सतत्रास्त्येवजीव इत्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org