SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१२, २२७ स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकचतुर एव लभन्ते, ततश्चपञ्चापि चतुष्कका विंशतिर्भवन्ति, साऽपिजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्यतदधः स्वपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधःकालयदृच्छानियतिस्वभावेश्वरात्मपदानिषड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयंनास्तिजीवः स्वतःकालतः,तथा नास्तिजीवः परतःकालतः, एवं यद्दच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौभङ्गको लभ्येते, सर्वेऽपिद्वादश, तेऽपिचजीवादिपदार्थसप्तकेन गुणिता-श्चतुरशीतिरिति, तथाचोक्तम्॥१॥ “कालयदृच्छानियतिस्वभावेश्वरात्मतश्चतुरशीति । नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः॥ साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्येवमभ्युपगभवतां सप्तषष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्यतदधोऽमीसप्त भङ्गकाः संस्थाप्याः-सत् असत्सदसत्अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति। अभिलापस्त्वयं-सन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन! १, असन् जीवः को वेत्ति? किं वातेज्ञातेन? २, सदसन्जीवः को वेत्ति? किंवा तेन ज्ञातेन ! ३,अवक्त्यो जीवः को वेत्ति किंवा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन? ५, असदवक्तव्यो जीवः को वेत्ति? किंचातेन ज्ञातेन? ६. सदसदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन एवमजीवादिष्वपिसप्त भङ्गकाः, सर्वेऽपि मिलिताषिष्टि, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्ति को वेत्ति? किंवाऽनया ज्ञातया? १, असती भावोत्पत्ति को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पित्ति को वेत्ति किं वाऽनया ज्ञातया ? ३, अवक्तव्या भावोत्पत्तिको वेत्ति किंवाऽनया ज्ञातया? ४,सर्वेऽपि सप्तषष्टिरिति, उत्तरंभङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्ती न संभवतीति नोपन्यस्तम, उक्तंच॥१॥ “अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्ति सदसवेधाऽवाच्या च को वेत्ति? ।। इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेणयोज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका मिलिता द्वात्रिंशदिति, उक्तंच॥१॥ "वैनयिकमतं विनयश्चेतोवाकायदानतः कार्य । सुरनृपतियतिज्ञातिस्थविराघममातृपितृषु सदा ।। सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतीणि त्रिषष्टयधिकानि प्रावादुकमतशतानि भवन्ति। ___तदेवं वादिनां तभेदसंख्यां प्रदाधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह-'तेषां' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy