________________
२२६
सूत्रकृताङ्ग सूत्रम् १/१२/-1५३४/ नि. [११७] कौपशमिकक्षायोपशमिकपारिणामिकभावसभावाच्चेति, पञ्चकसंयोगस्तु क्षायिक-सम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधाप्रदेशान्तरेऽभिहिता इति।तदेवं षड्विधे भावे भावसमवसरणंभावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं नियुक्तिकृदेव दर्शयति
क्रियां-जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपस्र्ता अक्रियावादिनः,तथा अज्ञनिनो-ज्ञाननिह्वववादिनः तथा वैनयिका' विनयेन चरन्तित प्रयोजना वा वैनयिकाः,एषाचतुर्णामपि सप्रभेदानामाक्षेपंकृत्वायत्रविक्षेपः क्रियतेतद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेणस्वरूपमाविष्कुर्वनाहजीवा-दिपदार्थसम्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां तेअस्तीतिक्रियावादिनः,तेचैववादित्वान्मिथ्याध्ययः, तथाहि-यदिजीवोऽस्त्येवे त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद्, एवं च नानेकं जगत् स्यात्, नचैतदृष्टमिष्टं वा । नि. [११८] अस्थिति किरियवादी वयंति नत्यि अकिरियवादी य।
अन्नाणी अन्नाणं विणइत्ता वेणइयवादी ।। वृ.तथा नास्त्येवजीवादिकः पदार्थइत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्याष्टयएच, तथाहि-एकान्तेन जीवास्तित्वप्रतिषेधेकर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिति । तथानज्ञानमज्ञानंतद्विद्यतेयेषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्याष्टय एव, तथाहिअज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुंपार्यते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्याटयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति
एषां च क्रियावाद्यादीनां स्वरूपं तनिराकरणंचाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाहनि, [११९] असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती।
___ अन्नाणिय सत्तही वेणइयाणंच बत्तीसा ।। नि. [१२०] तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे ।
सब्भावनिच्छयत्थं समोसरणमाहु तेणंतु॥ नि. [१२१] सम्मद्दिडी किरियावादी मिच्छा य सेसगा वाई।
जहिऊण मिच्छवायं सेवह वायं इमं सच्चं॥ वृ. क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्था परिपाट्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालस्वभावनियतीश्वरात्मपदानि पञ्चव्यवस्थाप्या ।
ततश्चैवं चारणिकाप्रक्रमः, तद्यथा-अस्ति जीवः स्वतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चत्वारः कालेन लब्धाः, एवं
For Private & Personal Use Only
Jain Education International
For Priva
www.jainelibrary.org