SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१४, २६९ तीर्थकृतः सर्वज्ञास्ते 'एवम्' अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा आचक्षते' प्रतिपादयन्तीति । एतदेवसमितिगुप्त्यादिकं संसारोत्तारणसमर्थ ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं 'प्रमादसङ्गं मद्यविषयादिकं सम्बन्धविधेयत्वेन प्रतिपादितवन्तः ।। किञ्चान्यत्मू. (५९६) निसम्म से भिक्खुसमीहिय, पडिभाणवं होइ विसारए य। आयाणअट्ठी बोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ।। वृ. सगुरुकुलवासी भिक्षुः द्रव्यस्यवृत्तं निशम्य' अवगम्य स्वतः समीहितं चार्थ-मोक्षार्थं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान्' उत्पन्नप्रतिभो भवति । तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छोतॄणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादान-सम्यगज्ञानादिकं तेनार्थ स एव वाऽर्थः आदानार्थः स विद्यते यस्थासावादनार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान व्यवदानं-द्वादशप्रकारं तपो मौनंसंयम आश्रवनिरोधरूपस्तदेवमेतौ तपःसंयमावुपेत्य-प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च । 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारं'ति क्वचित्पाठः, बहुशो भ्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स भारः-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यकत्व उत्कृष्टतः सप्ताष्टौ वा भवान म्रियते नो मिति। मू. (५९७) संखाइ धम्मंच वियागरंति, बुद्धा हु ते अंतकरा भवंति। ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ।। वृतदेवं गुरुकुलनिवासितयाधर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्यासद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं धर्मं श्रुतचारित्राख्यं 'व्यागृणन्ति प्रतिपादयन्ति, यदिवा स्वपरशक्ति परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति । ते चैवंविधा बुद्धाःकालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति। तेयथावस्थितधर्मप्ररूपका 'द्वयोरपि परात्मनोः कर्मपाशविमोचनयास्नेहादिनिगडविमोचनया वाकरणभूतयासंसारसमुद्रस्य पारगा भवन्ति।तेचैवंभूताः? "सम्यक्शोधित' पूर्वोत्तराविरुद्धं 'प्रश्न' शब्दमुदाहरन्ति, तथाहि-पूर्वबुद्धया पर्यालोच्य कोऽयंपुरुषः कस्यचार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक्परीक्ष्य व्याकुर्यादिति, अथवापरेण कञ्चिदर्थं पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तम् - ॥१॥ "आयरियसयासा वधारिएण अत्येण झरियमुनिएणं । तो संघमज्झयारे ववहरिउंजे सुहं होंति ॥ तदेवं ते गीतार्था यथावस्थितं धर्मं कथयन्तः स्वपरतारका भवन्तीति । मू. (५९८) नोछायएनो ऽविय लूसएज्जा, माणं न सेवेञ्ज पगासणं च । नयावि पन्ने परिहास कुजा, नयाऽऽसियावाय वियागरेजा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy