________________
२७०
सूत्रकृताङ्ग सूत्रम् १/१४/-/५९८
कृ.सच प्रश्नमुदाहरन् कदाचिदन्यथापिब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वाद्रलकरण्डकल्पः कुत्रिकापणकल्पोवाचतुर्दशपूर्विणामन्यतरोवा कश्चिदाचार्यादिमि प्रतिभावनवान्-अर्थविशारदस्तदेवंभूतः कुतश्चिन्निभित्ताश्रीतुः कुपितोऽपिसूत्रार्थं 'नछादयेत्' नान्यथा व्याख्यानयेत्स्वाचार्यवानापलपेत्धर्मकथांवा कुर्वन्नार्थंछादयेद् आत्मगुणत्कर्षाभिप्रायेण वापरगुणानछादयेत्तथा परगुणात्र लूषयेत्-नविडम्बयेत्शास्त्रार्थंवा नापसिद्धान्तेन व्याख्यानयेत्
तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेतान मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादितेत्येवमात्मकं मानम्अभिमान-गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न वापि 'प्रज्ञावान्' सुश्रुतिकः परिहासं' केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरितदुपहासप्रायं परिहासं न विदश्चात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ मू. (५९९) भूताभिसंकाइ दुगुंछमाणे, न निव्चहे मंतपदेण गोयं ।
न किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि न संवएज्जा ॥ वृ, किंनिमित्तमाशीर्वादोन विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वाद 'सावा सपापंजुगुप्समानोन ब्रूयात्तथा गाायत इति गोत्रं-मौनं वाकसंयमस्तं मन्त्रपदेन' विद्यापमार्जन विधिना ननिर्वाहयेत्' ननिसर कुर्यात् । यदिवागोत्रं-जन्तूनांजीवितं मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'ननिहियेत्' नपनयेत्।
एतदुक्तं भवति-न राजादिना साधु जन्तुजीवितोपमर्दकं मन्त्रं कुर्यात, तथा प्रजायन्त इति प्रजाः-जन्तवस्तासु प्रजासु मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभपूजासत्कारादिकम् ‘इच्छेद्' अभिलषेत्, तथा कुत्सितानाम् असाधूनांधर्मान्-वस्तुदानतर्पणादिकान् ‘न संवदेत्' नब्रूयायदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथा व्याख्यान वा कुर्वन् प्रास्वात्मश्लाघारूपां कीर्तिं नेच्छेदिति। किञ्चान्यत्मू. (६००) हासं पि नो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे।
नो तुच्छए नो यविकंथइजा, अनाइले या अकसाइ भिक्खू ।। वृ.यथा परात्मनोहस्यमुत्पद्यतेतताशब्दादिकं शरीरावयमन्यान्वा पापधर्मान् सावद्यामनोवाक्कायव्यापारान् ‘नसंधयेत्' न विदध्यात्, तद्यथा-इदंछिन्द्धि भिन्द्धि, तता कुप्रावचनिकान् हास्यप्रायं नोप्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा॥१॥ "मृद्वी शय्या प्रातरूत्थाय पेया, मध्ये भक्तं पानकंचापराह्ने।
द्राक्षाखण्डं शर्कराचार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥ - इत्यादिकंपरदोषोद्भावनप्रायं पापबन्धकमितिकृत्वा हास्येनापिन वक्तव्यं तथा ओजो' रागद्वेषरहितः सबाह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकार ज्ञपरिज्ञया विजानीयात्प्रत्याख्यानपरिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिकममप्रतारकं 'परुष' कर्मसंश्लेषाभावाग्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयवाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वापरूष-संयम विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org