________________
सूत्रकृताङ्ग सूत्रम् १/१४/-/५९३
२६८
मू. (५९३) उडूढं अहेयं तिरियं दिसासु, तसा य जे थावरा जे य पाणा । सयाजए तेसु परिव्वज्जा, मणप्पओसं अविकंपमाणे ॥
वृ. शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह ऊर्ध्वधस्तिर्यगत् दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता, द्रव्यतस्तु दर्शयति त्रस्यन्तीति त्रसाः- तेजोवायू द्वीन्द्रियादयश्च, तथा येच स्थावराः-स्थावरनामकर्मोदयवर्तिनः पृथिव्यबूवनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राण- धारणाप्राणिनस्तेषु, 'सदा' सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत् परिसम्ताद्व्रजेत् संयमानुष्ठायी भवेत् ।
भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसाऽपि न मङ्गुलं चिन्तयेद्, 'अविकम्पमानः' संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ।
मू. (५९४) कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥
वृ. गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं वा विशिष्टेन प्रष्टव्यकालेनाचायदिरवसरं ज्ञात्वा प्रजायन्त इति प्रजा-जन्तवस्तासु प्रजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्तादवा जन्तुगतं पृच्छेदिति ।
स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयतिमुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य वीतरागस्य तीर्थकरस्य वा वृत्तम् - अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति कथमित्याह-‘तद्' आचार्यादिना कथितं श्रोत्रे कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदेशकारी आज्ञा विधायी सन्पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत् चेतसि व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति । 'संख्याय' सम्यक् ज्ञात्वा 'इम' मिति वक्ष्यमाणं केवलिन इदं कैवलिकं- केवलिना कथितं समाधिं-सन्मार्गं सम्यगज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति ।
पू. (५९५) अस्सिं सुटिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खति तिलोगदंसी, न भुज्जमेयंति पमायसंगं ॥
वृ. किंचान्यत्- 'अस्मिन्' गुरुकुलवासे निवसता यच्छुतं श्रुत्वा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तस्मिन् समाधिभूते मोक्षमार्गे सुष्ठु स्थित्वा 'त्रिविधेने 'ति मनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानस्त्राणकरणशीलो वा तस्य स्वपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवतिअशेषद्वन्द्वोपरमो भवति तथा निरोधम्-अशेषकर्मक्षयरूपम् 'आहुः' तद्विदः प्रतिपादितवन्तः । क एवमाहुरित्याह- त्रिलोकम्-ऊर्ध्वाधस्तिर्यगलक्षणं द्रष्टुं शीलं येषां ते त्रिलोकदर्शिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org