________________
श्रुतस्कन्धः - १, अध्ययनं - १४,
मू. (५९०) अह तेण मूढेण अमूढगरस, कायव्व पूया सविसेसजुत्ता । एओवमं तत्थ उदाहु वीरे, अनुगम्म अत्थं उवणेति सम्मं ॥
वृ. पुनरप्यस्यार्थस्य पुष्टयर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य' सत्पथोपदेष्टु पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीरः' तीर्थकरोऽन्यो वागणधरादिकः ‘अनुगम्य’बुद्धवा 'अर्थं' परमार्थं चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा । अहमनेन मिथ्यात्ववनाज्जन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा -
119 11
२६७
गेहमि अग्गिजालाउलंमि जह नाम इज्झमाणंमि । जो बोइ सुयंतं सो तस्स जणो परमबंधू ॥ जहवा विससंत्तं भत्तं निद्धमिह भोक्तुकामस्स । जोवि सदोसं साहइ सो तस्स जणो परमबंधू ॥
॥२॥
पू. (५९१) नेता जहा अंधकारंसि राओ, मग्गं न जाणाति अपस्समाणे । से सूरिअस्स अट्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि ।।
बृ. अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते यथा हि सजलजलधराच्छादित बहलान्धकारायां रात्रौ 'नेता' नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि 'भार्गं' पन्थानमन्धकारावृतत्वात्स्वह- स्तादिकमपश्यन्न जानाति न सम्यक् परिच्छिनत्ति ।
स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिकचक्रे सम्यगाविर्भूते पाषाणदरिनिम्नोन्नतादिके मार्गं जानाति - विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षु परिच्छिनत्ति - दोषगुणविचारणतः सम्यगवगच्छतीति । एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमधिकृत्याहमू. (५९२) एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥
वृ. यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीते तमसि पश्चाज्जानाति एवं तु 'शिष्यकः' अभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टःअपुष्कलः सम्यगपरिज्ञातो धर्म- श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावपुष्टधर्मा, सचागीतार्थ-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्मं न जानातीति न सम्यक् परिच्छिनत्ति, स एव तु पश्चाद्गुरुकुलवासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमत्वान्निपुणः सूर्योदयेऽपगताचरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति ।
इदमुक्तं भवति यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्था प्रतीतयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निशङ्क प्रतीयन्त इति । अपिच कदाचिच्चक्षुषाऽन्यताभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा-मरुमरीचिकनिचयो जलभ्रान्त्या किंशुकनिचयोऽभ्याकारेणापीति । न च सर्वज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचार:, तद्व्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धुमशक्यत्वादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org