________________
२६६
सूत्रकृताङ्ग सूत्रम् १/१४/-/५८७
वृ. साम्प्रतं स्वपक्षचोदनानन्तरतः स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः - परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा - नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि यदिवा व्युत्थितः संयमाद्धष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन - अर्हठाणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमं प्रदर्थ्याभिहितः, तद्यथा
-
नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्याध्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता अत्युत्थिताः, यदिवा-दासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि - 'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुर्यात्, एतदुक्तं भवति ।
अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुर्न कुप्येत्, किं पुनरन्येनेति ? तथा 'अगारिणां' गृहस्थानां यः 'समयः अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति । एतदेवाह
मू. (५८८) न तेसु कुज्झे न य पव्वहेज्जा, न यावि किंची फरुसं वदेज्जा । तहा करिस्संति पडिस्सुणेज्जा, सेयं खु मेयं न पमाय कुज्जा ।।
बृ. 'तेषु' स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद अन्यस्मिन् वा दुर्वचनेऽभिहितेन कुप्येद् एवं च चिन्तयेत् ।
|| 9 11
'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मति कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ॥
तथा नाप्यपरेण स्वतोऽधमेनापि चोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत् दण्डादि प्रहारेण पीडयेत् न चापि किञ्चित्परुषं तत्पीडादिकारि 'वदेत्' ब्रूयात् ।
ममैवायमसदनुष्ठायिनो दोषो, येनायमपि मामेवं चोदयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येव मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिध्यादुष्कृतादिना निवर्तेत्, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतदुद्भ्यात्क्वचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति ।
पू. (५८९ ) वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव मज्झं इणमेव सेयं, जं मे बुहा समनुसासयति ॥
वृ. अस्यार्थस्य द्दष्टान्तं दर्शयितुमाह- 'वने' गहने महाटव्यां दिग्भ्रमेण कस्यचिद्वयाकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा 'अमूढाः' सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितम्' अशेषापायरहितमीप्सितस्थानप्रापकं 'मार्ग' पन्धानम् ' अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदेतद् बुद्धाः सम्यगनुशासयन्ति सन्मार्गेऽवतारयन्ति पुत्रमिव पितर तन्ममैव श्रेय इति मन्तव्यम् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org