________________
श्रुतस्कन्धः -१, अध्ययनं-१४,
२६५
एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासीसुसाधुर्भवतीति स्थितम् । अपिचगुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासुआगता-उत्पन्नाप्रज्ञा यस्यासावागतप्रज्ञः-संजातकर्तव्याकर्तव्यविवेकः स्वतोभवति, परस्यापि च व्याकुर्वन् कथयन्पृथक्पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ।। मू. (५८५) सदाणि सोचा अदु भेरवाणि, अनासवे तेसु परिव्वएजा।
निइंच भिक्खू न पमाय कुजा, कहंकहं वा वितिगिच्छतिन्ने ।। वृ. ईसिमित्याधुपेतेन यद्विधेयं तद्दर्शयितुमाह-'शब्दान्' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् श्रुत्वा' समाकाथवा 'भैरवान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनत्वेनवागृह्णातीत्याशवोनाश्रवोऽनाश्रयः, तेष्नुकूलेषुप्रतिकूलेषुश्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थोरागद्वेषरहितोभूत्वापरि-समन्ताव्रजेत्परिव्रजेत्-संयमानुष्ठायी भवेत्, तथा निद्रांच' निद्राप्रमादं च 'भिक्षु सत्साधुः प्रमादाङ्गत्वान्न कुर्यात् ।
एतदुक्तं भवति-शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकंनविदध्यात्।तदेवंगुरुकुलवासात्स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सांचित्तविप्लुतिरूपांतीर्णः-अतिक्रान्तो भवति, यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः कथंकथमप्यन्तंगच्छेद्?, इत्येवंभूतांविचिकित्सांगुरुप्रसादाद्वितीर्णोभवति, अथवा यांकाञ्चिच्चित्तविप्लुर्ति देशवसर्वगतां तां कृत्स्नां गुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपितदपनयनसमर्थः स्यादिति ॥ मू. (५८६) डहरेण बुड्ढेणऽनुसासि ए उ, रातिणिएणावि समव्वएणं ।
सम्म तयं थिरतो नाभिगच्छे, निजंतए वावि अपारए से। वृ.किञ्चान्यत्-सगुर्वन्तिके निवसन्क्वचित्प्रमादस्खलितःसन्वयःपर्यायाभ्यां क्षुल्लकेनलघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा' वयोऽधिकेन श्रुताधिकेन वा 'अनुशासितः' अभिहितः, तद्यथा-भवद्विधानाभिदमीटक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रतिचोदितः कुप्यतियथा अहमप्यनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशासनं सम्यक् स्थिरतः-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत ।
चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीयमान' उह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽऽचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति॥ मू. (५८७) विउद्वितेणं सम्पयाणुसिट्टे, डहरेण वुड्ढेण उ चोइए य।
अधुट्ठियाए घडदासिए वा, अगारिणं वा समयानुसिढे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.