________________
श्रुतस्कन्धः - १, अध्ययनं. १२,
कारणत्वकल्पनेऽतिप्रसङ्गः स्यात्, अण्डजोद्भिजाङ्कुरादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधनमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्ति कमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति।
आत्मनश्चाकर्तृत्वाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थं प्रवृत्तियुक्तिविकलेति अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दायतनं धर्मायतनं घ, धर्माः-सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसातोदयरूपंततोजीवगुणत्वान्जीवेऽन्तर्भावः, अथ तत्कारणंकर्मततः पौद्गलिकत्वादजीव इति ।
प्रत्यक्षंचतेर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहितत्त्वनिराकरणस्वबुद्धया विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्तवा पदार्था सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ।। मू. (५५६) सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे ।
नो जीवितं नो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ।।-तिबेमि। वृ. साम्प्रतमध्ययनार्थमुपसंजिहीर्षु सम्यग्वादपरिज्ञानफलामादर्शयन्नाह-'शब्देषु' वेणुवीणादिषुश्रुतिसुखदेषु 'रूपेषुच' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गाय॑मकुर्वाणः, अनेन रागोगृहीतः, तथा गन्धेषु' कुथितकलेवरादिषु 'रसेषुच' अन्तप्रान्ताशनादिषुअदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन्, इदमुक्तं भवति
शब्दादिष्विन्त्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नामिकाङक्षेत्, नापि परीषहोपसर्गरभिद्रुतो मरणमभिकाउक्षेत्, यदिवा जीवितमरण-योरनभिलाषीसंयममनुपालयेदिति।तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानंसंयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा-मिथ्यात्वादिनाऽऽदीयते इत्यादनम्-अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ।
अध्ययनं-१२ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाशाचार्य विरचिता प्रथमश्रुतस्कन्धस्य द्वादशमध्ययनटीका परिसमाप्ता ।
(अध्ययन-१३ "याथातथ्यं") वृ. समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org