________________
२५०
सूत्रकृताङ्ग सूत्रम् १/१३/-/५५६/नि. [१२२]
चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तनिराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽधिकारोऽयं, तद्यथा
शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषुधर्मसमाधिमार्गसमवसरणाख्येषु यदवितयं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथंतदपिलेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहनि. [१२२] नामतहं ठवणतहं दव्वतहं चेव होइ भावतहं ।
दव्वतहं पुण जो जस्स सभावो होति दव्वस्स ।। नि. [१२३] भावतहं पुण नियमा नायव्वं छव्विहंमि भावंमि ।
अहवाऽवि नाणदंसणचरित्तविनएन अन्झप्पे । वृ.अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्यभावप्रत्ययान्तस्य भवति, तत्र तथाशब्दोल्लङ्घनेन तथाशब्दस्य निक्षेपकर्तुनियुक्तिकारस्यायमभिप्रायः-इहयथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांशएवप्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो यस्य सचित्तादेः स्वभावो द्रव्यप्राधान्यायधस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा योयस्यमार्दवादिस्वभावोऽचित्तद्रव्याणांचगोशीर्षचन्दनकम्बलरलादीनां द्रव्याणां स्वभावः तद्यथा॥१॥ उण्हे करेइ सीयं सीए उण्हत्तणंपुण करेइ ।
कंबलरयणादीणं एस सहावो मुणेयव्यो ।। भावतथ्यमधिकृतयाह-भावतथ्यंपुनः नियमतः' अवश्यंभावतयाषड्विधेऔदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाजातः क्षायिकःअप्रति-पातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादि-संयोगान्निष्पन्नः सान्निपातिक इति ।
___ यदिवा-'अध्यात्मनि आन्तरं चतुर्धा द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्रज्ञानतथ्यंमत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यंशङ्काद्यतिचाररहितंजीवादितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचत्वारिंशभेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्दिधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह -- नि. [१२४] जह सुत्तं तह अत्थो चरणं चारो तहत्ति नायव्वं ।
संतंभि (य) पसंसाए असती पगयं दुगुंछाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org