________________
२४८
सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५ एव सत्प्रत्ययो भविष्यति किं तया ?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्॥१॥ “स्वतोऽर्था सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? ।
असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसङ्गतः।। इत्यादि । एतदेवदूषणमपरसामान्येऽप्यायोजयं, तुल्ययोगक्षेमत्वात्। किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यतएवेति, तस्यचकथञ्चित्तदव्यतिरेकाद्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्यव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते या तेषु विशेषबुद्धि सा नापरविशेषहेतुकाऽऽश्रयिततव्या, अनवस्थाभयात्, स्वतः समाश्रयणेच तद्वद् द्रव्यादिष्वपि विशेषबुद्धि स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते,सर्वस्य सामान्यविशेषात्मकत्वादिति । एतत्तुप्रक्रियामात्र, तद्यथानित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणिचचतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, इति नियुक्तिकत्वादपकर्णयितव्यमिति।।
समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपद्येरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्ति, तस्यचानेकत्वमिति किश्च-अयंसमवायःसम्बन्धः,तस्यच द्विष्ठत्वादयुतसिद्धत्वमेव दण्डदण्डि. नोरिव, वीरणानांच कटोत्पत्तीतद्रूपतया विनाशः कटरूपतयोत्पत्तिरनवयरूपतया व्यवस्थानमिति दुग्धदघ्नोरिवेत्येवं वैशेषिकमतेऽपि न सभ्यपदार्थावस्थितिरिति ।
साम्प्रतंसाङ्ख्यदर्शनतत्त्वनिरूपणंप्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान्महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति। तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्ण-सितादिगुणानामिव, न च महदादिविकारे जन्येप्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्व्यतिरिक्त-वस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृत्वेनाकिश्चित्करत्वात्, स्वभाववैषभ्याभ्युपगमे तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तंच॥१॥ “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ।। अपिच-महदहकारी संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यह दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणत्वं, नजडरूपायाः प्रकृतेर्विकारावेताविति अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपिन युक्तिक्षमा, यतोयदिबाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचिदनीशंजगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्रकिल त्वगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृगद्रवलक्षणा आपःपक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणामाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणां शुक्रासृकप्रभवोत्पत्ति, नतत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org