SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ शाम श्रुतस्कन्धः - १, अध्ययनं -१२, २४७ आकाशकालयोश्चास्माभिरपिद्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपन्न पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च स्वशरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति,मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति, भावमनसश्चजीवगुणत्वादात्मन्यन्तर्भाव इति।यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, यता न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयस्वभावमिति, तथा चोक्तम् - “नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृभेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः । ॥१॥ "न नरः सिंहरूपत्वान्न सिंहो नररूपतः । शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः ।। इत्यादि । अथरूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेविशेषगुणाः, तथा सङ्ग्रयापरिमाणानिपृथक्त्वं संयोगविभागौ परत्वापरत्वे इत्येते सामान्यगुणाः सर्वद्रव्यवृत्तित्वात्, तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराआत्मगुणाः, गुरुत्वं पृथिव्युदकयोर्द्रवत्वं पृथिव्युदकाग्निषुस्नेहोऽम्भस्येव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यस्वभावत्वेन परोपाधिकत्वाद्गुणा एवन भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः 'गुणपर्यायवद् द्रव्य' मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यिमिति न पृथग्भावः । किञ्च-तस्य भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हिभावाद्रव्येशब्दनिवेशस्तदभिधाने त्वतला' वित्यनेन भवति, तत्र घटो रक्तउदकस्याहारको जलवान् सर्वैरेव घट उच्यते, अत्रच घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव आहारकत्वं जलवतोभावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणांगुणानां सद्भावात् द्रव्ये पृथुबुनाकर उदकाधाहरणक्षमे कुटकाख्येशब्दस्य घटादेरभिनिवेशस्तत्रत्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात्, कतरच तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति ? । किमिदानीं रक्तस्य भावो रक्तत्वमितिनभवितव्यं?, भवितव्यमुपचारेण, तथाहि-रक्तइत्येतद्रव्यत्वेनोपचर्य तस्य सामान्य भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते,शब्दसिद्धावेव तस्य कुतार्थत्वादिति । शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौद्गलिकत्वाद्, आकाशस्य चामूर्तत्वादिति। शेषंतुप्रक्रियामात्रंनसाधनदूषणयोरङ्गम्। क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्दिधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्-“सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र नतावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत स्वत एव ?, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाऽजागलस्तनकल्पया विकल्पितया ?, किञ्च-द्रव्यादीनां किं सतां सतया सत्प्रत्यय उतासतां?, तत् यदि सतां स्वत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy