________________
३०८
सूत्रकृताङ्ग सूत्रम् २/१/-/६४२
येषां तान्यपुरोहितानि स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीध्शं जगदिति वचनात्, तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति ।
तदेवं सांख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेर्नास्ति 'विनाशः ' अत्यन्ताभावरूपो नाप्यसतः शशविषाणादेः संभवः समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, तथा चोक्तम्- "नासतो जायते भावो नाभावो जायते सतः " इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः ॥ तदेवमेतावानेव तावदिति सांख्यो लोकायतिको या माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्मदयुक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेव' भूतमात्र एव जीवकायः, तथा एतावानेव भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति ।
तथा एतावानेव सर्वलोको यदुत पञ्चमहाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य पदार्थस्याभावादिति तथा एतदेव पञ्चभूतास्तित्वं 'मुखं' कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्यप्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तसस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादिति भावः ॥ स चैवंवाद्येकत्रात्मनोऽकिञ्चित्करत्वादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति दर्शयितुमाह-' से कीण' मित्यादि 'से' त्ति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन्' किञ्चित् क्रयेण गृहंस्तथाऽपरं क्रापयंस्तथा प्राणिनो घ्नन् हिंसन् तथा परैर्घातयन् व्यापादयन् तथा पचनपाचनादिकां क्रिया कुर्वंस्तथाऽपरैश्च पाचयन्, अस्य चोपलक्षणार्थत्वात् क्रीणतः क्रापयतो घ्नतो घातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रियं विक्रीय घातयित्वा अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं 'जानीहि ' अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः ।
ततश्चैवंवादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद्' वक्ष्यमाणं 'विप्रतिवेयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावधानुष्ठानरूपा एवमक्रिया वा स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उञ्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भः 'विरूपरूपान्' नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति - नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारित्वादार्यान्मार्गाद्विरुद्धं मार्गं प्रतिपन्नाः विप्रतिपन्नाः, तथाहि - सांख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप' मिति वचनात्, आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तसंगतं यतोऽकर्तृत्वात्मनो नित्यत्वाच प्रतिबिम्बोदयोन युज्यते, किंच-नित्यत्वात्प्रकृतेर्महदादिविकारतया नोत्पत्ति स्यात्, अपिच- 'नासतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org