________________
३४४ सूत्रकृताङ्ग सूत्रम् २/२/-/६६१ समियस्स उच्चारपासवणखेलसिंधाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तबंभयारिस्स ।
आउत्तं गच्छमाणस्स आउत्तं चिट्टमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अत्थि विमाया सुहुमा किरिया इरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए निज्जिण्णा सा बद्धा पुट्ठा उदीरिया वेइया निजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिज्जइ, तेरसमे किरियटठाणे ईरियावहिएत्ति आहिज्जइ ।
से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एयाइंचेव तेरस किरियाणाई भासिंसु वा भासेति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविस्संति वा, एवं चैव तेरसमं किरियट्टाणं सेविंसु वा सेवंति वा सेविस्संति वा ।
घृ. अथापरं त्रयोदश क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापथिकम्, एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं त्विदं सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनो वाक्कायक्रियस्य या क्रिया तया यत्कर्म तदीर्यापथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा ? कीद्दकर्मफला वा ? इत्येतद्दर्शयितुमाह'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मत्वं तदर्थमात्मत्वार्थं संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य त्वसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात्, तदेवमात्मार्थं संवृतस्यानगारस्येर्यापथिकादिभिः पश्चिभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रहणताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थं वेति ।
तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्त्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृह्णतो निक्षिपतो वा यावच्चक्षुपक्षम्निपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः स्थातुम्, अग्निना ताप्यमानोद- कवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्- "केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यद्बध्यते कर्म तस्य च कर्म तठप्रथमसमय एव बद्धं स्पृष्टं चेतिकृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये निर्जीर्णा एतदुक्तं भवति कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्धध्यमानमेव स्पृष्टतां संश्लेषं याति, द्वितीयसमये त्वनुभूयते तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च तदेव सेर्यापथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले त्ति आगामिनि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International