SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३४३ कर्मकरणाय न ग्राह्योऽन्ये तु शूद्रा ग्राह्या इति, किं बहुनोक्तन ?, नाहमुपद्रावयितव्यो- जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं तेषां परपीडोपदेशनतोऽति मूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्संभरीयां विषमध्टीनां न प्राणातिपादविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना त्वनादिभवाभ्यासाहुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह- 'एवमेवे' त्यादि, 'एवमेव ' पूर्वोक्तेनैव कारणेनातिमहत्वादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु चशब्दादिषु मूर्छिता गृद्धा प्रथिता अध्युपपन्नाः । अत्र चात्यादरख्यापनार्थं प्रभूतपर्यायग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्- "मूलमेयमहम्मस्, महादोससमुस्सय' मित्यादि, इह च स्त्री सङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽ सक्ता यावन्तं कालमासते तत्सूत्रेणैव दर्शयति यावद्वर्षाणि चतुष्पञ्चष दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभिप्रायकं, प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते इति दर्शयतितस्माच्चौपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्त्वापि गृहवासं 'भुक्त्वा भोग भोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् भुक्त्वा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्याष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम रहिताः ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता अपि किल्बिषिकेषु स्थानेषूत्पत्स्यन्ते तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः च्युताः किल्चत्र बहुलास्कमशेषेणैलवन्मूका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषत्वमवाप्य यथैको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए 'त्ति तमस्त्वेन - अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकत्वेनापगतावाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीर्थिकानां परमार्थतः सावद्यानुष्ठानादिनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तव्यत्ययिकं' लोभप्रत्ययिकं सावद्यं कर्माधीयते । तदेतल्लोभप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति । 7 साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह- 'इति' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः साधुः, तमेव विशिनष्टिमा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृत्वा क्षपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति ।। मू. (६६१) अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस अनगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंड मत्तनिक्खेवणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy