________________
३४२
सूत्रकृताङ्ग सूत्रम् २/२/-/६५९ मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतोभवति-असमाहतअनङ्गीकृता शोभना लेश्या येनसतथाआर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापिभवति।तदेवंखलुतस्य 'तात्ययिकं मायाशल्यप्रत्ययिकंसावा कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिकं व्याख्यातं ।। एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधियते
मू. (६६०) अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिजइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया नो बहुसंजया नो बहुपडिविरया सब्बपाणभूतजीवसत्तेहिं ते अप्पणो सच्चामोसाइं एवं विउंजंति, अहं न हंतव्यो अन्ने हंतव्या अहं न अन्जावेयव्यो अन्ने अञ्जावेयव्वा अहं न परिघेतव्यो अन्ने परिघेतब्वा अहं न परितावेयच्चो अन्ने परितावेयव्वा अहं न उद्दचेयव्यो अन्ने उद्दवेयव्वा ।
एवमेव ते इथिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाई घउपंचमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अत्रयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवति, ततो विय्यमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पञ्चायंति, एवं
खलु तस्स तप्पत्तियं सावजंति आहिजइ, दुवालसमे किरियट्ठाणे लोभवत्तिएति आहिए इच्चेयाइंदुवाल । स किरियाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअब्वाइं भवंति।।
वृ. एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरेग्रामादिकमुपजीवन्तो ग्रामस्यान्तेसमीपे वसन्तीति ग्रामान्तिकाः, तथा क्वचित् कार्यमण्डलप्रवेशादिके रहस्यं येषांते कचिद्राहसिकाः, ते च 'न बहुसंयता न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन बसेषु दण्डसमारम्भ विदधति, एकेन्द्रियो पजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा न बहुविरता नसर्वेष्वपि प्राणातिपातविरमणादिषुव्रतेषु वर्तन्ते, किंतु? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविर्भावयितुमाह 'सव्वपाणे'त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्वेभ्य आत्मना-स्वतः अविरताःतदुपमर्दकारम्भादविरता इत्यर्थः। तथा ते पाषण्डिका आत्मना-स्वतो बहूनि सत्या मृषाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति प्रयुञ्जन्ति ढवत इत्यर्थ, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्या मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति।
तद्यथा अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं'शूद्रं व्यापाद्य प्राणायाम जपेत किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये त्यादि, अपरं चाहं वर्णोत्तमत्वात् नाज्ञापयितब्धोऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org