________________
श्रुतस्कन्धः - २, अध्ययनं - २,
३४१
सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थं चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थं स्वमतिपरिकल्पित भाषाभिरपराविदिताभिर्भाषन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथासाध्वाकारेण मन्यन्ते व्यवस्थापयन्तिच, तथाऽन्यत्सृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ वादितया व्याकरणे प्रवीणस्तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थं पृष्टस्तदर्थानभिज्ञः कालातिपातार्थं शरत्कालं व्यावर्णयति, तथाऽन्यस्मिंश्चार्थे कथयतव्येऽन्यमेवार्थमाचक्षते ॥ तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चतुराणां विपाकोद्भवनाय ध्टान्तं दर्शयितुमाह
'से जहे' त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः - मध्ये शल्यं-तोमरादिकं यस्य सोऽन्तः शल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न स्वतो 'निर्हरति' अपनयतिउद्धरति नाप्यन्येनोद्धारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्ये वाऽ पृष्टो वा तच्छल्यं निष्प्रयोजनमेव 'निह्नुते' अपलपति, तेन च शल्येनासावन्तर्वर्तिना 'अविउट्टमाणे' त्ति पीड्यमानः 'अंतो अंतो' त्ति मध्ये मध्ये पीड्यमानोऽपि 'रीयते' व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः ।
साम्प्रतं दान्तिकमाह- 'एवमेवेत्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासी 'मायी' मायाशल्यवान् यत्कृतकार्यं तन्मायया निगूहयन् मायां कृत्वा न तां मायामन्यस्मै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिकं तन्मायाशल्यं निन्दति, तद्यथा- धिङ्मां यदहमेवंभूतमकार्यं कर्मोदयात्तत् कृतवान्, तथा नापि परसाक्षिकं गर्हति आलोचना- र्हसमीपे गतो च जुगुप्सते, तथा 'नो विउट्टति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मकं विविधम्- अनेकप्रकारं त्रोटयति अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया निर्वर्त्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्यं सेवित्वाऽऽलोचनार्हायात्मानं निवेद्य तदकार्याकरणतया - ऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्याति नोद्युक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयमानोऽपि 'यथाऽर्हम्' अकार्यनिर्वहणयोग्यं प्रायः चित्तं शोधयतीति प्रायश्चित्तं तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं 'प्रतिपद्यते' अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोऽस्मिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवामिश्रम्भणत्वेन 'प्रत्यायाति' प्रख्यातिं याति तथाभूतश्च सर्वस्यापि अविश्वास्यो भवत, तथा चोक्तम्
॥१॥ "मायाशीलः पुरुषः " ( यद्यपि न करोति किञ्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः ) |
इत्यादि, तथाऽतिमायावित्वादसी परस्मिन् लोके जन्मान्तरावाप्ती सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयन्त्रन्यायेन प्रत्यागच्छतीति तथा नानाविधैः प्रपञ्चैर्वञ्चयित्वा परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयित्वाऽऽत्मानं प्रशंसयति, तद्यथा-असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्- "येनापत्रपते साधुरसाधुस्तेन तुष्यती 'ति । एवं चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति तथाविदानुष्ठायी भवतीति निश्चरति ।
तत्र च गृद्धः संस्तस्मान्मातृस्थानान्न निवर्तते, तथाऽसौ मायावलेपेन 'दण्डं' प्राण्युपमर्दकारिणं 'निसृज्य' पातयित्वा पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति,
सच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org