________________
श्रुतस्कन्धः - १, अध्ययनं - १३,
२५७
यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभि शिष्यगुणैर्भाव्यमित्याह
मू. (५६९) जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य । आगाढपन्ने सुविभावियप्पा, अन्नं जणं पन्नया परिहवेज्जा ।।
वृ. भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षु' साधुः, तथा सुष्ठु साधुशोभनं हितं मितं प्रियं वदितुं शीलमस्येत्यसौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम् - औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं तत्प्रतिभानं विद्यते यस्यास प्रतिभानवान्- अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया यथायोगमाचष्टे ।
तथा 'विशारदः' अर्थग्रहणसमर्थो बहुप्रकारार्थकथनसमर्थोवा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा-अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठु विविधं भावितो -धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात्, तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यं जनं स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि किमनेन वाक्कुण्ठेन दुर्दुरूटेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमस्ति ? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्“अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कुत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पेण ।। इत्यादि । मू. (५७०) एवं न से होइ समाहिपत्ते, जे पत्रयं भिक्खु विउक्क सेज्जा । अहवाऽवि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपन्ने ॥
119 11
वृ. साम्प्रतमेतद्दोषाभिधित्सयाऽऽह 'एवम्' अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्षं कुर्वन्त्रशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समाधि' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासी परमार्थेदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति- यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वप्रज्ञया भिक्षु 'उत्कर्षेद्' गर्वं कुर्यात्, नासौ समाधिं प्राप्तो भवतीति प्राक्तनेन सम्बन्धः ।
अन्यदपि मदस्थानमुद्घट्टयति- ' अथवे 'ति पक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसइ' त्ति निन्दति परिभवति, वक्ति च न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाद्युपकरणोत्पादको विद्यते, किमन्यैः स्वोदर भरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं 'बालप्रज्ञो' मूर्खप्रायोऽपर जनापवादं विदध्यादिति ॥ मू. (५७१) पन्नामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से |
217
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org