________________
२५८
सूत्रकृताङ्ग सूत्रम् १/१३/-1५७१ वृतदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसद्दशैर्भूयते यतोऽतः प्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह-प्रज्ञया-तीक्ष्णबुद्धया मदःप्रज्ञामदस्तंच, तपोमदं च निश्चयेन नामयेन्नि मयेद्अपनये, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं भदं न कुर्यात् ।
तथा उञ्चैर्गोत्रेइक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदंचनामयेदिति आ-समन्ताज्जीवन्त्यनेनेत्याजीवः-अर्थनिचयस्तंगच्छति-आश्रयत्यसावाजीवगः-अर्थमदस्तंचचतुर्थ नामयेत्, चशब्दाच्छेषानपि मदान्नामयते, तन्नामनाचासौ पण्डितः' तत्त्ववेत्ताभवति, तथाऽसावेव समस्तमदानोदक उत्तमः पुद्गल-आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थःउत्तमोत्तमो-महतोऽपि महायान् भवतीत्यर्थः ॥ मू. (५७२) एयाइं मयाइं विगिंच धीरा, नतानि सेवंति सुधीरधम्मा।
ते सव्वगोत्तावगया महेसी, उच्च अगोतंच गतिं वयंति।। वृ.साम्प्रतंमदस्थानानामकरणीयत्वमुपदर्योपसंजिहीर्षुराह- एतानि प्रज्ञादीनिमदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय 'विगिच'त्ति पृथक्कुर्यादात्मनोऽपनयेदितियावत्, घी:बुद्धिस्तया राजन्त इति धीरा-विदितवेद्यानैतानिजात्यादीनि मदस्थानानि सेवन्ति-अनुतिष्ठन्ति, के एते?
ये सुधीरः-सुप्रतिष्ठितो धर्म-श्रुतचारित्राख्यो येषां तेसुधीरधर्माणः,तेचैवंभूताः परित्यक्तसर्वमदस्थानामहर्षयस्तपोविशेषशोषितकल्मषाःसर्वस्मादुचैर्गोत्रादेरपगता गोत्रापगताः सन्त उच्चां-मोक्षाख्यां सर्वोत्तमां वा गतिं व्रजन्ति गच्छन्ति, चशब्दात्पञ्चमहाविमानेषुकल्पातीतेषुवा व्रजन्ति, अगोत्रोपलक्षणाचान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम् किञ्चमू. (५७३) भिक्खूमुयचे तह दिट्ठधम्मे, गामंच नगरं च अनुप्पविस्सा।
से एसणं जाणमनेसणंच, अन्नस्स पाणस्स अनानुगिद्धे ।। वृ. स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्काराभावादर्चा-तनुः शरीरं यस्य स मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनाऽर्चापद्मादिका लेश्या यस्य स भवति मुदर्चः-प्रशस्तलेश्यः, तथा दृष्टः-अवगतो यथावस्थितो धर्मश्रुतचारित्राख्योयेनसतथा- सचैवंभूतः क्वचिदवसरे ग्रामनगरमन्यद्वामडम्बादिकमनुप्रविश्य भिक्षार्थमसावुत्तम- धृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणां च-उद्गमदोषादिकां तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः' अनध्युप-पन्नः सम्यग्विहरेत्, तथाहि-स्थविरकल्पिक द्विचत्वारिंशद्दोषरहितांभिक्षा गृह्णीयुः, जिनकल्पिकानां तु पञ्चस्वभिग्नहो द्वयोर्ग्रहः, ताश्चेमाः॥१॥ “संसट्टमसंसट्ठा उद्धड तह होति अप्पलेवा य ।
उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ अथवा यो यस्याभिग्रहः सा तस्यैषणाअपरात्वनेषणेत्येवमेषणानेषणाभिज्ञः क्वचिप्रविष्टः समाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org