________________
श्रुतस्कन्ध: - १, अध्ययनं - १३,
वृ. तदेवं
मू. (५७४) अरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एगंतमोनेन वियागरेजा, एगस्स जंतो गतिरागती य । भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततया च मृतकल्पदेहस्य सुध्ष्टधर्मण एषणानेषणाभिज्ञस्यान्नपानादावमूर्छितस्य सतः क्वचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्क मोदयादरति संयमे समुत्पद्येत तां चोत्पन्नामसौ भिक्षु संसारस्वभावं परिगणय्य तिर्यङ्नारकादिदुःखं चोठप्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्याभिमवेद, अभिभूय चासावेकान्तमीनेन व्यागृणीयादित्युत्तरेण सम्बन्धः ।
तथा रतिंच 'असंयमे' सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदाभिभूय च संयमोधुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि - बहवो जनाः साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एवं चरति तच्छीलश्चैकचारी, सच प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात्, स च बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमाबाधया किञ्चित्धर्मसंबद्धं ब्रूयात्, किं परिगणय्यैत्कुर्यादिः त्याह यदिवा किमसौ ब्रूयादिति दर्शयति- 'एकस्य' असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' मनं परलोके भवति, तथा आगति- आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च"एकः प्रकुरुते कर्म, भूनक्त्येकश्च तत्फल् । जायते म्रियते चैक, एको याति भवान्तरम् ।।
119 11
२५९
इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्यहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौनः -संयमस्तेन तत्प्रधानं वा ब्रूयादिति ।
मू. (५७५) सयं समेच्चा अदुवाऽवि सोचा, भासेज धम्मं हिययं पयाणं । जे गरहिया सणियाणप्पओगा, न तानि सेवंति सुधीरधम्मा ।।
वृ. किञ्चान्यत्- 'स्वयम्' आत्मना परोपदेशमन्तरेण 'समेत्य' ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्ष तत्कारणानि च सम्यगदर्शनज्ञानचारित्राण्येतत्सर्वं स्वत एवावबुध्यान्यस्माद्वाऽऽचार्यादिः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत ।
किंभूतं ? - प्रजायन्त इति प्रजाः स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति । उपादेयं प्रदर्श्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापार धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽसंशारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगोः, तद्यथा-कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निर्व्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोदघट्टनया मर्भवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते' न ब्रुवत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org