________________
सूत्रकृताङ्ग सूत्रम् १ /१३/-/५६५ परमार्थमबुध्यमानो माद्यति पठन्नपि सर्वशास्त्रापि तदर्थं चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ।
मू. (५६६) जे माहणो खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा । जे पव्वईए परदत्तभोई, गोत्ते ण जे धब्भति मानबद्धे ॥
२५६
वृ. सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति'उग्रपुत्रः' क्षत्रियविशेषजातीयः तथा 'लेच्छइ' त्ति क्षत्रियविशेष एव तदेवमादिविशिष्टकुलोद्भूतो यथावस्थितसंसारस्वभावेदितया यः 'प्रव्रजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुष्ठायी ।
'गोत्रे' उच्चैर्गोत्रे हरिवंशरथानीये समुत्पन्नोऽपि नैव 'स्तम्भं' गर्वमुपयायादिति, किंभूते गोत्रे ? -'अभिमानबद्धे' अभिमानास्पदे इति एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रव्रजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात् नैवासी मानं कुर्यादिति तात्पर्यार्थः ॥
मू. (५६७) न तस्स जाई व कुलं व ताणं, नन्नत्थ विज्जाचरणं सुचिण्णं । निक्खम्म से सेवइऽगारिकम्मं, न से पारए होइ विमोयणाए ॥
वृ. न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोद्धुरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभिमानो जात्यादिक ऐहिकामुष्मिक - गुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतच्चोपलक्षणम्, अन्यदपि मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तरकत्वेन त्राणसमर्थं तद्दर्शयति ।
ज्ञानं च चरणं च ज्ञानचरणं तस्मादन्यत्र संसारोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्त्वोपबृंहितं सत् सुष्ठु चीर्णं सुचीर्णं संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वचनात् एवंभूते सत्यपि मोक्षमार्गे ‘निष्क्रम्यापि' प्रव्रज्यां गृहीत्वापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते' अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां गृहस्थानामङ्गं कारणं जात्यादिकं मदस्थानं, पाठान्तरं वा 'अगारिकम्मं 'ति अगारिणां कर्मअनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते ।
न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्षयकारीन भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति । मू. (५६८) निक्किंचणे भिक्खु सुलूहजीवी, जे गारवे होइ सलोगगामी । आजीवमेयं तु अबुज्झमाणो, पुणो पुणो विप्परियासुर्वेति ॥
वृ. पुनरप्यभिमानदोषाविर्भावनायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षुःपरदत्तभोजी तथा सुष्ठु रूक्षम् - अन्तप्रान्तं वल्लचणकादि तेन जीवितुं प्राणधारणं कर्तुं शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरविप्रयो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी भवति । स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिञ्चनत्वं सुरूक्षजीवित्वं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामात्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं-जातिजरामरणरोग शोकोपद्रवमुपैति - गच्छति, तदुत्तरणायाभ्युद्यतो वा तत्रैव निमज्जतीत्ययं विपर्यास इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org