________________
श्रुतस्कन्धः-१, अध्ययनं. १, उद्देशकः - ४
केषाञ्चिदिदम् ‘आख्यातम् अभ्युपगमः ।
तदेव विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति-अन्यैः-अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः। मू. (८१) अनंते निइए लोए, सासए न विणस्सती।
अंतवं निइए लोए, इति धीरोऽतिपासइ ।। वृ. तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहिं-यो यागिह भवे स तागेव परभवेऽप्युत्पद्यते, पुरुषःपुरुषएवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निरवधिक इतियावत्,तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोकइति । तथा शश्वद्भवतीति शाश्वतोद्यणुकादिकार्यद्रव्या-पेक्षयाऽश्वद्भवन्नपिन कारणद्रव्यं परमाणुत्वं परित्यजतीति तथा न विनश्यतीति दिगात्माका-शाद्यपेक्षया।तथाऽन्तोऽस्यास्तीत्यन्तवान्लोकः, सप्तद्वीपावसुन्धरेतिपरिमाणोक्तेः, स च ताईकपरिमाणो नित्य इत्येवं "धीरः' कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका' इत्येवमादिकं नियुक्तिकं लोकवादं निशामयेदिति किंचमू. (८२) अपरिमाणं वियाणाई, इहमेगेसिमाहियं ।
सव्वत्थ सपरिमाणं, इति धीरोऽतिपासई ।। वृ.न विद्यते परिमाणम्' इयत्ता क्षेत्रतः कालतोवा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत, एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्॥१॥ “सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। __ इति, ‘इह' अस्मिल्लोके एकेषां' सर्वज्ञापह्नववादिनाम् ‘ददमाख्यातम्' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालंचा परिच्छेद्यं कर्मतापन्नमाश्रित्यसह परिमाणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते ब्रुवते-दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः । मू. (८३) जे केइ तसापाणा, चिट्ठति अदु थावरा ।
परियाए अस्थि से अंजू, जेण ते तसथावरा ।। वृ.अस्यचोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः प्राणाः'प्राणिनः सत्त्वाः 'तिष्ठन्ति' सत्वमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यागस्मिन् जन्मनि मनुष्यादि सोऽन्यस्मिन्नपि जन्मनि तागेव भवतीति, ततः स्थावराणां त्रसानां च ताशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org