________________
सूत्रकृताङ्ग सूत्रम् १/१/४/८३ नादिकाः क्रियाः सर्वा अप्यनर्थिका आपघेरन् । लोकेनापि चान्यथात्वमुक्तं, तद्यथा
_ “सवैएषशृगालोजायतेयः सपुरीषो दह्यते" तस्मात्स्थावरजङ्गमानांस्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति।तथा 'अनन्तोनितयश्चलोकः' इतियदभिहितं, तत्रेदमभिधीयतेयदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित्क्षति, अथानच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यतेतन्न घटते, तस्याध्यक्षबाधितत्वात् न हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति। तथाशश्वद्वनकार्यद्रव्यस्थाऽऽकाशात्मादेश्वाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति।।
तथा यदुक्तम्-'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वा'दित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तदग्राहकप्रमाणाभावादिति। तथा यदप्युक्तम्-'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिस्ततत्कृतविशिष्टानुष्ठानात्?, तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगविराहादिभिव्यापता लोकाभवेयुः, तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वयेसत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता?, स्वकृतानुष्ठानंच निष्फलमापद्यतेत्येवं यत्किञ्चिदेतदिति।
तथा 'श्वानोयक्षा इत्यादियुक्तिविरोधित्वादनाकर्णनीयमिति।यदपिचोक्तम्-'अपरिमाणं विजानाती'ति, तदपि न घटामियति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत्, तथाहितस्यकीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्वमेष्टव्यं ।
तथा यदुक्तं-'स्वापबोधविभागेनपरिमितंजानाती'त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति यदपि च कैश्चिदुच्यते-यथा 'ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशी विद्येते 'न कदाचिदनीद्दशं जगदि ति वचनात्।
तदेवमनन्तादिकं लोकवादंपरिहत्यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयतिये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन तेत्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते असाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽप्नुवन्ति, नपुनर्योयागिह सताध्गेवामुत्रापि भवतीत्ययं नियम इति अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽहमू. (८४) उरालं जगतो जोग, विवजासं पलिंति य।
सव्वे अकंतदुक्खा य, अओसव्वे अहिंसिता। वृ. 'उराल'मिति स्थूलमुदारं जगत' औदारिकजन्तुग्रामस्य 'योग' व्यापारंचेष्टामवस्थाविशेषमित्यर्थ, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org