________________
५०
सूत्रकृताङ्ग सूत्रम् १/१/३/६१
कोटिभिरपि दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्याः' पृथुरोमाणो विशालःसमुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका:- बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे' समुद्रवेलायां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः सन्त ।
पू. (६२)
उदगस्स पभावेणं, सुक्क सिग्धं तमिति उ । ढकेहि य कंकेहि य, आमिसत्येहिं ते दुही ॥
वृ. उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आभिषग्रध्नुभिर्टङकैः कश्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिर्भत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं ' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः । पू. (६३)
एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, दातमेस्संति नंतसो ॥
वृ. एवं दृष्टान्तमुपदर्श्य दान्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः ' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्त्तमानमेव सुखम् आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव 'घातं ' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः ' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वर्ति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह
मू. (६४)
इणमन्त्रं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ।।
,
वृ. ‘इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान' मिति मोहविजृम्भणम्'इह' अस्मिन् लोके एकेषां न सर्वेषाम् 'आख्यातम्' अभिप्रायः, किं पुनस्तदाख्यातमिति ? तदाह-देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थ, देवैर्वा गुप्तोरक्षितो देवगुप्तो देवपुत्रो वेत्येवमार्दिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति ।
यू. (६५)
ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ।
वृ. तयेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च तेसर्वमिदं विमत्यधिकरणभावापनं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org