________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २
चतुर्विधकर्मचयानभ्युपगमेनानिपुणत्वाच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति।
अध्ययनं-१ उद्देशकः-२ समाप्तः
-: अध्ययनं-१ उद्देशकः-३:द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः-अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुद्दष्टयः प्रतिपादितास्तदोषाश्च तदिहापितेषामाचारदोषः प्रदीत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावयासरखलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम्मू. (६०) जंकिंचि उ पूइकडं, सड्ढीमागंतुमीहियं ।
सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ।। वृ. अस्य चानन्तरसूत्रेण सहायं संबन्ध-इहानन्तरोद्देशकपर्यन्तसूत्रेऽभिहितम्, ‘एवं तु श्रमणा एके इत्यादि, तदिहापि संबध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतंभुआनाः संसारंपर्यटन्तीति, परम्परसूत्रेत्वभिहितं पुज्झिज्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तदुध्येतेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धोयोज्यः । अधुनासूत्रार्थ प्रतीयते-'यत्किञ्चिदितिआहारजातंस्तोकमपि, आस्तांतावाभूतं, तदपि पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तांतावदाधाकर्म, तदपि न स्वयंकृतम्, अपि तु 'श्रद्धावता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं, तच्च सहान्तरितमपि यो भूज्जीत' अभ्यवहरेदसौ 'द्विपक्ष' गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽसेवते, एतदुक्तं भवति
एवंभूतमपि परकृतमपरागन्तुकयत्यर्थ निष्पादितं यदाधाकर्मादि तस्य सहान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुनानस्य द्विपक्षसेवनमापद्येति, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेवचोपभुञ्चते?,तेच सुतरां द्विपक्षसेविनो भवन्तीत्यर्थ, यदिवा-'द्विपक्ष'मिति ईर्यापथः सांपरायिकं च, अथवा । पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीनयत्यपूर्वाश्चादत्ते, तथा चागमः-“आहाकम्मंणं भुञ्जमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अठ्ठकम्मपयडीओ बंधइ, सिढिलबंधबद्धाओ घणियबंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, इस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूध्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थ:। मू. (६१) तमेव अवियाणंता, विसमंसि अकोविया ।
मच्छा वेसालिया चेव, उदगस्सऽभियागमे । वृ. इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह-'तमेव' आधाकर्मोपभोगदोषम् 'अजानाना' विषमः-अष्टप्रकारकर्मबन्धो भव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org