________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः . ३
साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति दृष्टान्तोऽयं, यद्यसंस्थानविशेषवत्तत्तबुद्धिमत्कारणपूर्वकं दृष्ट, यथा देवकुलकूपादीनि, संस्थानविशेषवच्च मकराकरनदीधरा-धरधराशरीरकरणादिकंविवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवतीत्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकंधर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्योधर्म, कार्यत्वादघटादिवत्, तथा स्थित्वा प्रवृत्तेर्वा, वास्यादिवदिति ।
__ तथाऽपरे प्रतिपन्ना यथा-प्रधानादिकृतो लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच गणः षोडशक: तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानी'त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणास्वभावादिकं गृह्यते, ततश्चायमर्थस्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतोलोको मयूराङ्गरुहवदित्यादिभिकारणैः कृतोऽयंलोको 'जीवाजीवसमायुक्तो' जीवैःउपयोगलक्षणैः तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपिलोकं विशेषयितुमाह-सुखम् आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यांसमन्वितोयुक्त इति मू. (६६) सयंभुणा कडे लोए, इति वुत्तं महेसिणा।
__ मारेण संधुया माया, तेण लोए असासए । वृ.किंच-‘सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः-विष्णुरन्यवा, सचैकएवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूदू 'इति' एवंमहर्षिणा 'उक्तम्' अभिहितम्, एवंवादिनो लोकस्य कर्तारमभ्युपगतवन्तः
अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयीति मारो व्यधायि, तेन मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्यव्यापत्तिरस्ति, अतोमायैषा यथाऽयंमृतः, तथा चायं लोकः अशाश्वतः' अनित्यो विनाशीति गम्यते अपि च-- मू. (६७) माहणा समणा एगे, आह अंडकडे जगे।
___ असो तत्तमकासी य, अयाणंता मुसं वदे ॥ वृ. 'ब्राह्मणा' धिग्जातयः 'श्रमणाः' त्रिदण्डिप्रभृतयः ‘एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतंअण्डाज्जातमित्यर्थ, तथाहि तेवदन्ति-यदान किञ्चिदपि वस्त्वासीत्-पदार्थशून्योऽयंसंसारः तदा ब्रह्माऽप्स्वण्डमसृजत्, तस्माच्च क्रमेण वृद्धात्पश्चादिवधाभावमुपगतादूवधिोविभागोऽभूत्, तन्मध्ये च सर्वा प्रकृतयोऽभूवन्, एवं पृथिव्यतेजोवाय्वाकाशसमुद्रसरित्पर्वमकराकरनिवेशादिरांस्थितिरभूदिति, तथा चोक्तम्
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ।। एवंभूते चास्मिन् जगति 'असौ' ब्रह्मा, तस्य भावस्तत्त्वं-पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । तेच ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org