________________
श्रुतस्कन्धः - १, अध्ययनं ७,
-
१७५
मू. (४०५) निक्खम्म दीने परभोयणंमि, मुहमंगलीए उदरानुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥
वृ. किञ्च यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिहवेन्द्रियवशात्त बन्दिवत् 'मुखमाङ्गलिको' भवति मुखेन मङ्गलानि-प्रशंसावाक्यानि ईद्दशस्ताद्दशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च 119 11 "सो एसो जस्स गुणा वियरंतनिवारिया दसदिसासु ।
KAJ
इहरा कहासु सञ्च्चसि पच्चक्खं अज्ज दिट्ठोऽसि ।।
इत्येवमौदर्यं प्रति गृद्धः अध्युपपन्नः, किमिव ? 'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीत्वा च स्वयूथं 'महावराहो' महाकायः सूकरः स चाहारमात्रगृद्धोऽतिसंकटे प्रविष्टः सन् ‘अदूर एव' शीघ्रमेव 'घातं ' विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ॥
मू. (४०६ ) अन्नस्स पाणस्सिहलोइयस्स, अनुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए ।
वृ. किंचान्यत्, स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः ।
स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गतःअपगतः सारः- चारित्राख्यो यस्य स निसारः, यदिवा निर्गतः सारो निसारः स विद्यते यस्यासौ निसारवान्, पुलाक इव निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति ।
उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाहमू. (४०७) अन्नातपिंडेणऽहियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्रमाणं, सव्वेहि कामेहि विणीय गेहिं ।।
वृ. अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्त्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् पालयेत्, एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कारनिमित्तत्वेन तथा विधार्थित्वेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निसारं कुर्यात्, तदुक्तम् "परं लोकाधिकं धाम, तपः श्रुतमिति द्वयम् ।
119 11
तदेवार्थित्वनिर्लुप्तसारं तृणलवायते ॥
यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति दर्शयति- 'शब्दः ' वेणुवीणादिभिराक्षिप्तः संस्तेषु ‘असजन्’ आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै रागद्वेषमकुर्वन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org