________________
१७४
सूत्रकृताङ्ग सूत्रम् १/७/-/४०१
तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थं दीर्घमुत्पाटयित्वा ह्रस्वं करोति ह्रस्वं वा सन्धाय दीर्घं करोति एवं लूषयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'नागनियस्स' त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुरिति ।
मू. (४०२) कम्मं परित्राय दगंसि धीरे, वियडेण जीविज्ज य आदिभोक्खं । से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥
बृ. उक्ताः कुशीलाः, तत्प्रतिपक्ष भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान् ‘उदगंसित्ति उदकसमारम्भे सति कर्मबन्धो भवति, एवं परिज्ञाय किं कुर्यादित्याह- 'विकटेन' प्रासुकोदकेन सौवीरादिना 'जीव्यात्' प्राणसंधारणं कुर्यात्, चशब्दात् अन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात् ।
आदिः-संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्ति यावदिति, धर्मकारणानां वाऽऽदिभूतं शरीरं तद्विमुक्ति यावत् यावज्जीवमित्यर्थः, किं चासौ साधुर्बीजकन्दादीन् अभुञ्जानः, आदिग्रहणात् मूलपत्रफलानि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति ।
स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते, यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते तदयोगाच्च न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति । पुनरपि कुशीलेनावाधिकृत्याह
मू. (४०३) जे मायरं च पियरं च हिचा, गारं तहा पुत्तपसुं धनं च । कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥
वृ. ये केचनापरिणतसम्यग्धर्माणसत्यक्त्वा मातरंच पितरंच, मातापित्रोर्दुस्त्यजत्वादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेत्येतदपि द्रष्टव्यं तथा 'अगारं गृहं 'पुत्रम्' अपत्यं 'पशुं' हस्त्यश्चरथगोमहिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थाय पञ्चमहाव्रतभारस्य स्कन्धं दत्त्वा पुनर्हीनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'स्वादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय मू. (४०४) कुलाई जे धावइ साउगाई, आघाति धम्मं उदराणुगिद्धे । अहाहु से आयरियाण सयंसे, जे लावएज्जा असनस्स हेऊ ॥
वृ. एतदेव विशेषेण दर्शयितुमाह- यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो यद्यस्मै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः- उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति । यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति सकुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्तते इति यो ह्यन्नस्य हेतुं भोजनमितित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग पुनर्य स्वत एवाऽऽत्मप्रशंसां विदधातीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org