________________
१७६
सूत्रकृताङ्ग सूत्रम् १/७/-/४०७
11911
एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं 'विनीय' अपनीय संयममनुपालथेदिति, सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात्, तथा चोक्तम्“सद्देसु य भद्दयपावएसु, सोयविसयमुवगएसु । तुट्टेण व रुद्वेण व, समणेण सया न होयव्वं ॥ रूवेसु य भद्दयपावएसु, चक्बुविसयमुवगएसु । तुट्टेण व रुद्वेण व समणेण सया न होयव्वं ॥ गंधे य भद्दयपावसु, घाणविसयमुवगएसु । तुट्टेण व रुद्वेण व सामेव सयान हौयवां ॥ भक्खेय भद्दयपावसु, रसणविसयमुवगएसु । तुट्टेण व रुद्रेण व, समणेण सया न होयव्वं ॥ फासे य भयपावसु, फासविसयमुवगएसु । तुट्टेण व रुट्टेण व, समणेण सयान होयव्वं ॥
11411
मू. (४०८) सव्वाई संगाई अइच धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अनिएयचारी, अभयंकरे भिक्खु अनाविलप्पा ॥
वृ. यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान्' सम्बन्धान् आन्तरान् स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्त्वा 'धीरो' विवेकी सर्वाणि 'दुःखानि' शारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि 'तितिक्षमाणः ' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्ण तथा कामेष्वगृद्धस्तथा 'अनियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षु साधुः एवम् 'अनाविलो' विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्त्तत इति ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
मू. (४०९) भाररस जाता मुनि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा |
वृ. किञ्चान्यत्-संयमभारस्य यात्रार्थं पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनि' कालत्रयवेत्ता 'भूञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य' कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाङ्क्षेत् 'भिक्षु' साधुरिति, तथा दुःखयतीति दुःखं- परीषहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् 'धूतं संयमं मोक्षंवा 'आददीत' गृह्णीयात्, यथा सुभटः कश्चित् सङ्गग्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रुं दमयति एवं परं कर्मशत्रु परीषहोपसर्गाभिद्रुतोऽपि दमयेदिति ॥
मू. (४१० ) अवि हम्ममाणे फलगावतट्टी, समागमं कंखति अंतकस्स । निधूय कम्मं न पवंचुवेइ, अक्खक्खए वा सगडी तिबेमि ॥
वृ. अपि च- परीषहोपसर्गैर्हन्यमानोऽपि पीड्यमानोऽपि सम्यक् सहते, किमिव ?फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्श्वभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहस्तनुः दुर्बलशरीरोऽ रक्तद्विष्टश्च, अन्तकस्य- मृत्योः 'समागमं' प्राप्तिम् 'आकाङ्क्षति' अभिलषति, एवं चाष्टप्रकारं कर्म 'निर्धूय' अपनीयन पुनः 'प्रपञ्चं' जातिजरामरणरोगशोकादिकं प्रपञ्चयते बहुधा नटवद्यस्मिन् स प्रपञ्चःसंसारस्तं 'नोपैति' न याति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org