________________
श्रुतस्कन्धः-२, अध्ययन-६,
४२७
'गह मो'जुगुप्सामो-न ह्यसावेकान्तो यथावस्थितत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणान कंचिद्गमिः काणकुण्टोद्घट्टनादिप्रकारेण, केवलं स्वपरस्वरूपाविभवनं कर्मों, नच वस्तस्वरूपाविर्भावन परापवादः, तथा चोक्तम्॥१॥नेत्रनिरीक्ष्य विलकण्टककीटसप्पान, सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् ।
___ कुज्ञानकुश्रुतिकुमार्गकुष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः।।
इत्यादि । यदिवैकान्तवादिनामेव-अस्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगाख्यो दोषो, नास्माकमनेकान्तवादिनां, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धन दर्शयति-'स्वत' इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गमिोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किञ्चिद्गर्हाम इति स्थितम् । मू. (७५०) न किंचि रूवेणऽभिधारयामो, सदिछिमग्गंतु करेसु पाउं ।
मग्गे इमे किट्टिए आरिएहिं, अनुत्तरे सप्पुरिसेहिं अंजू ॥ वृ. एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणंवा स्वरूपेण-जुगुप्सिताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारामो' गर्हणाबुद्धयोद्घट्टयामः, केवलं स्वदृष्टिमार्ग तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा॥१॥ ब्रह्मा लूनशिरा हरिशि सरुग्व्यालुप्तशिश्नो हरः,
सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः,
सन्मार्गस्खलवनाद्भवन्ति विपतः प्रायः प्रभूणामपि ।। इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाधनार्थं श्लोकपश्चाःनाह-अयं मार्ग' पन्थाः सम्यग्दर्शनादिकः कीर्तितो' व्यावर्णितः, कैः ? आर्यै सर्वज्ञैस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो ? नास्मादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्ययावस्थितजीवादिपदार्थस्वरूपनिरूपणाच, किंभूतैराथै? - सन्तश्चतेपुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो ? अंजू व्यक्तः निर्दोषत्वाप्रकटः ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति । मू. (७५१) उर्ल्ड अहेयं तिरियं दिसासु, तसा यजेथावर जे य पाणा।
भूयाहिसंकाभि दुगुंछमाणा, नो गरहती वुसिमं किंचि लोए । वृ. पुनरपि सद्धर्मस्वरूपनिरूपणायाह-'उड्ढं अहेय'मित्यादि, ऊर्ध्वमघस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षुप्रज्ञापकापेक्षया भावदिगपेक्षयावा तासुये साये च स्थावराः प्राणिनः चशब्दी स्वगतानेकभेदसंसूचकी, 'भूत' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशया प्राण्युपमर्दशङ्कया सर्वसावधमनुष्ठानं जुगुप्समानोनैवापरलोकंकञ्चन गर्हति' निन्दति 'बुसिमंतिसंयमवानिति।तदेवंरागद्वेषवियुक्तस्य वस्तुरूपाविर्भवने न काचिद्गहेति, अथ तत्रापि गर्दा भवति न तर्दुष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति।
स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org