________________
४२८
सूत्रकृताङ्ग सूत्रम् २/६/-/७५२
मू. (७५२ ) आगंतरागेर आरामगारे, समणे उ भीते न उवेति वासं । दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता य लवालवा य ॥ घृ. स विप्रतिपन्नः सन्नार्द्रकमेवमाह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि असावागन्तुकानां कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासी 'श्रमणो' भवत्तीर्थकर, तुशब्द एवकारार्थे, भीत एवासौ तदपध्वंसनमत्वात् 'तत्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति चेत्तदाह'दक्षाः ' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तद्भीतो न वासं तत्र समुपैति न तत्र वासमातिष्ठते । किंभूताः ? -न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महांश्छायाभ्रंश इति । तानेव विशिनष्टि-लपन्तीति लपावाचालाः घोषितानेक तर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठित योगाः गुडिकादियुक्ता वा यद्वशादभिधेयविषया वागेव न प्रवर्तते तस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति मू. (७५३) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्येहि य निच्छयन्ना । पुच्छिंसु मा णे अनगार अन्ने, इति संकमाणो न उवेति तत्थ ॥
वृ. पुनरपि गोशालक एवाह - 'मेहाविणो' इत्यादि, मेघा विद्यते येषां ते मेघाविनोग्रहणधारणसमथा, तथाऽऽचार्यादिः समीपे शिक्षां ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्धयुपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिना इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्षुरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमानः- तेषां बिभ्यन्न 'तत्र' तन्मध्ये उपैति उपगच्छतीति, ततश्च न ऋ जुर्मार्गः, इति भययुक्तत्वातस्य, तथा म्लेच्छविषयं गत्वा न कदाचिद्धर्मदेशना च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद्रागद्वेषवर्त्यसाविति ।
सू. (७५४) नो कामकिच्चा न य बालकिच्चा, रायाभिओगेण कुओ भएणं । वियागरेज्ज पसिणं नवावि, सकामकिच्चेनिह आरियाणं ॥
वृ. एतद्गोशालकमतं परिहर्तुकाम आर्द्रक आह- स हि भगवान्प्रेक्षापूर्व कारितया नाकामकृत्यो भवति, कमनं कामः इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वर्ततेसोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचित - कारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चिप्रवर्तते ।
"
ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'स्वकामकृत्येन '
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International