________________
श्रुतस्कन्धः-२, अध्ययनं -६,
४२९
स्वेच्छाचारिकारितयाऽसावपि तीर्थकृनामकर्मणः क्षपणायन यथाकथंचिद्, अतोऽसावग्लानः 'इह' अस्मिन्संसारेआर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनांतदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ! किंचान्यत्मू. (७५५) गंता च तत्था अदुवा अगंता, वियागरेज्जा समियासुपने।
अनारिया दंसणओ परित्ता, इति संकमाणो न उवेति तत्थ ।। वृ. 'गते' त्यादि, स हि भगवान् परहितैकरतो गत्वापि विनेयासन्नमथवाऽप्यगत्वा यथा वथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदशनां विदधति, उपकारे सति गत्वाऽपिकथयन्त्यसतितुस्थिताअपिन कथयन्तीत्यतोनतेषांरागद्वेषसंभव इति, केवलमाशुप्रज्ञसर्वज्ञः समतया समद्दष्टितया चक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वाधर्मव्यागृणीयात् 'जहापुण्णस्स कत्थइ तहातुच्छस्स कत्थई' इतिवचनादित्यतोन रागद्वेषसद्भावस्तस्येति। यत्पुनरनार्यदशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति-यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति।
यदिवा-अविपरीत दर्शनाः-साम्प्रतक्षिणो दीर्घदर्शनिनोन भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान याति, न पुनस्तह्वेदिबुद्धयेति । यदप्युच्यते त्वया-'यथाऽनेकशास्त्रविशारदगुडिकासिद्धविद्यासिद्धादितीर्थिकपराभवभयेननतस्तमाजेगच्छती'त्येतदपि बालप्रलपितप्रायं, यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादुकैर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः?, भगवांस्तु केवलालोकेन यत्रैवस्वपरोपकारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति । पुनरन्येन प्रकारेण गोशालक आहमू. (७५६) पनजहा वणिए उदयट्टी, आयस्स हेउं पगरेति संगे।
तऊवमे समणे नायपुत्ते, इच्छेव मे होति मती वियका ।। वृ.यथावणिक्कश्चिद् 'उदयार्थी लाभार्थी'पण्यं व्यवहारयोग्यंभाण्डकपूरागरुकस्तूरिकाम्बरादिकंगृहीत्वा देशान्तरंगत्वा विक्रीणाति,तथा 'आयस्स' लाभस्य हेतो.' कारणान्महाजनसङ्गंविधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणोज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितर्कोमीमांसावेति। मू. (७५७) नवं न कुज्जा विहुणे पुराणं, चिचाऽमइंताइ य साह एवं ।
एतोवया बंभवतित्ति वुत्ता, तस्सो दयट्ठी समणेत्तिबेमि।। वृ.एवमुक्ते गोशालकेनाईक आह-'नवनकुञ्जा' इत्यादि, योऽयं भवता दृष्टान्त प्रदर्शितः सकिं सर्वसाधम्र्णोत देशतः ?, यदि देशतस्ततो ननः क्षतिमावहति, यतो वणिग्वत् यत्रैवो. पचयं पश्यतितत्रैव क्रियांव्यापारयतिन यथाकथञ्चिदित्योतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्येण तनयुज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवंप्रत्यग्रं कर्म न कुर्यात्
तथा विधूनयति अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा त्यक्त्वा 'अमति' विमतिं पायी भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org