________________
श्रुतस्कन्धः-१, अध्ययनं-८,
१८७
गृह्णीयादित्यर्थः । किञ्चान्यत्मू. (४३१) कडंच कजमाणं च, आगमिस्संच पावगं।
सव्वं तं नानुजाणंति, आयगुत्ता जिइंदिया। वृ.साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितंपापकं कर्म तथा वर्तमानेच काले क्रियमाणं. तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः “नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा।
तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वातथा चौरोहतो हन्यते हनिष्यते वा इत्यादिक परानुष्ठानं 'नानुजानन्ति' नच बहुमन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां तेतथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ।। मू. (४३२) जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो।
असुद्धं तेसि परकंतं, सफलं होइ सव्वसो ।। वृ.अन्यच्च-ये केचन अबुद्धा' धर्मं प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, नचव्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम् - ॥१॥"शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम्
नानाप्रकाररसभागवताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥
यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकभेदिनः सुभटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्याअपितथा सुभटवादं वहन्तोऽपि सम्यकतत्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति ।
नसम्यगसम्यक् तद्भावोऽसम्यकत्वंतद्रष्टं शीलं येषां ते तथा, मिथ्याद्दष्टय इत्यर्थः, तेषां चबालानांयत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतंतदशुद्ध अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वात् सनिदानत्वाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन-कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तक्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति । साम्प्रतं पण्डितवीठिणोऽधिकृत्याह-(गाथा चतुष्क) मू. (४३३) जे य बुद्धा महाभागा, पीरा सम्मत्तदंसिणो ।
सुद्धं तेसिं परकंतं, अफलं होइ सव्वसो॥ वृ.ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्या वाबुद्धबोधिता गणधरादयो ‘महाभागा' महापूजाभाजो 'वीराः' कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमदावनुष्ठितं तच्छुद्धम् । अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफलं भवति-तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः। तथाहि-सम्यगदृष्टीनांसर्वमपि संयमतपःप्रधान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org